पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४८५
बालमनोरमा ।

६७८ । अनश्च । (५-४-१०८)

अन्नन्तादाव्ययीभावाट्टच्स्यात् ।

६७९ । नस्तद्धिते । (६-४-१४४)

नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ।

६८० । नपुंसकादन्यतरस्याम् ।(५-४-१०९)

अन्नन्तं यत्कृीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम्—उपचर्म ।

६८१ । नदीपौर्णमास्याग्रहायणीभ्यः । (५-४-११०)

वा टच्स्यात् । उपनदम्-उपनदि । उपपौर्णमासम्-उपपौर्णमासि उपाग्रहायणम्-उपाग्रहायणि ।


परग्रहणं प्रक्षिप्तमिति युक्तम्। परोक्षे लिट्' इति सूत्रस्थभाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनेव साधितत्वात्। समसक्षमिति।। अक्ष्णोर्योग्यमित्यर्थः । यथार्थेऽव्ययीभावः। टच् इकारलोप इति भावः। अन्वक्षमिति।।अक्ष्णोः पश्चादित्यर्थः । पश्चादर्थे अव्ययी भावः। शेष समक्षवत् ।अनश्च ।। अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणम्यते। अन इति तद्विशेषणम् । तदन्तविधिः। तदाह। अन्नन्तादिति।।नस्तेद्धिते ।। न इति षष्ठ्यन्तम् ।तेन भस्यत्यधिकृतं विशेष्यते, तदन्तविधिः। टेरिति सूत्रमनुवर्तते अल्लोपो डनः इत्यस्माल्लोप इति च। तदाह ।नीन्तस्येति ।। उपराजमिति।। राज्ञस्समीप मित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावः। अनश्च इति टच् सुब्लुक् टिलोपः। उप राजशब्दादयथायथं सुप् अम्भावः। टजन्तस्यैवाव्ययीभावसमासत्वाट्टचि परे अव्ययानां भमात्रे टिलोपाप्रवृत्तेः “नस्तद्धिते ' इत्यारम्भ अध्यात्ममिति ॥ आत्मनीत्यर्थः । विभक्तयर्थे अव्ययीभावः।शेषं पूर्ववत् । नपुंसकादन्यतरस्याम्॥ अन इत्यनुवृत्तं नपुसकस्य विशेषणम् । तदन्तविधि अन्नन्तात् क्लीबादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । तदाह । अन्नन्तादिति ॥ उपचर्मम्-उपचर्मेति चर्मणस्समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्याव्ययीभावः। टचि टिलोपः अम्भावः टजभावे उपचर्मेति रूपम् । नदीपौर्णमासी ॥. शेषपूरणेन सूत्रं व्याचष्टे चा टजिति अन्यतरस्यामिति टजिति चानुवर्तत इति भाव नदी पौर्णमासी आग्रहायणी एतदन्ताद व्ययीभावसमासाट्टज्वा स्यादिति यावत् । अत्र नदीसंज्ञकस्य न ग्रहणम् । पौर्णमाख्याग्रहायणी ग्रहणालिङ्गात् । उपनदमिति नद्यास्समीपमित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावसमासः। टच्, “यस्येति च' इतीकारलोप उपनदशब्दात् सुप् अम्भाव इति भावः । उपनदीति टजभावे रूपम् । नपुंसकह्रस्वः। अव्ययादाप्सुपः’ इति लुक् । उपपौर्णमासमिति पौर्णमास्यास्समीपमित्यर्थः टचि उपनदमितिवदूपम् । टजभावे उपपौर्णमासीति रूपम् । "