पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३९
बालमनोरमा

४५५ । उगितश्च । (४-१-६)

उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात् । भवन्ती । पचन्ती । * शप्श्य नोः-(सू ४४६) इति नुम् । “उगिद्चाम् (सू ३६१) इति सूत्रे ऽज्ग्रहणेन * धातोश्चेदुगित्कार्यं तर्ह्यश्चतेरेव' इति नियम्यते । तेनेह न


वार्तिकमेतत् । नजः परो यः मूलशब्दः तस्मात् “पाककर्ण' इति ङीष् न भवति, किन्तु टाबे वेत्यर्थः । अमूलेति । अविद्यमानं मूलं यस्या इति विग्रहे 'नञोऽस्त्यर्थानां वाच्यो वा चोत्तर पदलोपः' इति बहुव्रीहिः । “ अत्र सम्भस्त्रेति, सदच्काण्डेति, मूलान्नञः' इति च वार्तिकत्रयं पाककर्ण' इति सूत्रभाष्यपठितमपि फले विशेषाभावाद्जादिगणे मूले प्रपञ्चितम् । नचैता न्यजाद्यन्तर्गणसूत्राणीति भ्रमितव्यम् अजादिराकृतिगणः । तेन “न भुने' इति सूत्रभाष्ये टायामादेश इति भाष्यप्रयोगस्सिद्धः।अत एव च पूर्वमीमांसायां द्वितीयस्य प्रथमपादे स्तुतशस्त्र योस्तु संस्कारो याज्यावद्देवताभिधानत्वादिति स्तुतशस्राधिकरणे वशाद्वा गुणार्थं स्यात्' इति गुणसूत्रव्याख्यावसरे शाबरभाष्यभट्टवार्तिकयोः छागस्य वपाया मेदस' इति प्राकृतमन्त्रस्य वायव्यामजां वशामालभेत” इत्यत्र छागाया वपाया इत्यूहानुक्रमणं सङ्गच्छते। अत एव च ब्रह्म मीमांसायां प्रथमस्य चतुर्थपाद चमसवदविशेषात्” इत्यधिकरणे शाङ्करभाष्यवाचस्पत्योः अजायां छागेति टाबन्तः प्रयोग उपपन्न अन्यथा जातिलक्षणङीष्प्रसङ्गादित्यास्तां तावत् ऋत्रेभ्यः' इति सूत्रमजन्तस्त्रीलिङ्गाधिकार प्रसङ्गात् व्याख्यातम्, इह तु सूत्रक्रमात् पुनस्त दुपन्यासः । उगितश्च ॥ उक् प्रत्याहारः, उक् इत् यस्य सः उगित, उगित इति पञ्चम्यन्तम् प्रातिपदिकादित्येतत् विशेष्यते, तदन्तविधिः, “उगिद्वर्णग्रहणवर्जम्' इत्युक्तः “समासप्रत्यय विधौ' इति प्रतिषेधेो न पूर्वसूत्रात् ङीबित्यनुवर्तेते । तदाह । उगिदन्तादिति ॥ उगित् द्विविधं प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति । भवन्वीति ॥ सर्वादिगणे भवतु इति अव्युत्पन्ने प्रातिपदिकं पठितं, तस्य व्यवदेशिवत्वेन उगिदन्तत्वात् ङीप्, ङपावितौ, “आ च्छीनद्योः' इति नुम् ‘शप्ष्श्यनोर्नित्यम्’ इति नुम् नः शत्रन्तत्वाभावात् । ‘उगिदचाम्’ इत्यपि न सर्वनामस्थानत्वाभावात् । अथ द्वितीयमुगितमुदाहरति । पचन्तीति पचेर्वलंटश्शतरि शपि पररूप पचच्छब्द तत्र शतृप्रत्ययः उगित् तदन्तं पचत् इति प्रातिपदिकमिति तस्मातू ङीपि शप्श्यनोर्नित्यम्' इति नुमिति भावः । यदि तु सवॉदिगणे पठितं भवतु इत्यतत् 'भातेर्डवतु इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोश्शतरि शपि, ऊकारस्य गुणे, अवादेशे, भवच्छब्दात् ङीपि तु, “शप्श्यनोर्नित्यम्' इति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्य अव्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्वेन उगिदन्तत्वं 'व्यपदेशिवद्भावेोऽप्राति पदिकेन' इति वचनादिति वाच्यम् । प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्ते उगिदचाम् इति सूत्र इत्यादिग्रन्थः हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यात । तेनेति ।। अञ्चुव्यतिरिक्तधातोरुगित्कार्याभावलाभेनेत्यर्थः उखेति ॥ उखा कुण्डी, उखायास्त्र सते, पणत् ध्वंसते इति विग्रहः 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । स्नंसु ष्वंसु