पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता


उखास्रत् । क्विप् । अनिदिताम्--' (सू ४१५) इति नलोपः । पर्णध्वत् । अश्वतेस्तु स्यादेव । प्राची । प्रतीची ।

४५६ । वनो र च । (४-१-७)

वन्नन्तात्तदन्ताञ्च प्रातिपदिकात्स्त्रियां ङीप्स्यात् । रश्चान्तादेशः । वन्निति ड्रनिष्कनिव्वनिपां सामान्यग्रहणम् । “प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तद् न्तस्य ग्रहणम्' (प २४) । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता, अतिसुत्वरी । अतिधीवरी । शर्वरी । “वनो न हशः इति


अवस्रंसने' सुपीत्यनुवृत्तौ ‘क्विप् च' इति क्विप्, उपपदसमासः, सुब्लुक्, “अनिदिताम् इति नलोपः, हल्डयादिना सोर्लोप 'वसुस्त्रंसु’ इति दत्वमिति भावः । स्यादेवेति ॥ ङीविति शेषः । प्राचीति ॥ प्रपूर्वात् अञ्चतेः 'ऋत्विक्' इत्यादिना क्विन्, “अनिदिताम्' इति नलोपः, उगित्वात् ङीप्, “अचः' इत्यकारलोपः, “चौ' इति दीर्घः । एवं प्रतीची । वनो र च ॥ वनः र व इति छेदः । र इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः, चकारात् डीप् समुच्चीयते, वन इति पञ्चम्यन्तं, तेन वन्प्रत्ययान्तं तदन्तञ्च विवक्षितम् । प्रातिपदिकादित्य धिकृतम् । तदाह। वन्नन्तादित्यादिना । अन्तादेशः इति । प्रकृतेरिति शेषः । नान्तत्वादेव ङीप् प्राप्तः, तत्सन्नियोगेन रेफमात्रमिह विधेयम् । सामान्येति । अनुबन्धविनिर्मुक्तवन् ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः । ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह । प्रत्ययग्रहणे इति । यस्मात् प्रकृतिभूतात् शब्दात् यः प्रत्ययो विहित तदादेः सः प्रकृतिभूतश्शब्दः आदिर्यस्य तस्य, तदन्तस्य सः प्रत्ययः अन्तो यस्य समुदा यस्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्द्यवर्तिनश्च ग्रहणमित्यर्थः । “तिङ्ङतिङ इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थ तदादिग्रहणम् । 'यस्मात् प्रत्ययविधिस्तदा दिप्रत्ययेऽङ्गम्’ इति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वन्नन्तेन प्रादिपादकादि त्यधिकृतस्य विशेषणात् पुनस्तदन्तविधिलाभादिति भावः । नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यम् । “येन विधिस्तदन्तस्य' इत्यत्र “ स्वं रूपं शब्दस्याशब्दसंज्ञा' इत्यतः स्वमि त्यनुवर्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भावः । तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्वेन वन्नन्तान्तामिति केचित् । “ग्रहणवता प्रातिपदिकेन तदन्तविधि र्नास्ति’ इति तु ‘स्त्रियाम्’ इत्यस्मिन् अधिकारे न प्रवर्तते । ‘शूद्रा चामहत्पूर्वा जाति इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नन्तान्तमुदाहरति । सुत्वानमिति ॥ *षुञ् अभिषवे सुयजोर्ङ्वनिप् 'ह्रस्यस्य पितिकृति' इति तुक् । सुत्वन्शब्दः । सुत्वानमतिक्रान्ता इति विग्रहे अत्यादयः’ इति समासः । सुब्लुकि, ङीप्, नकारस्य रत्वम्, अतिसुत्वरीति रूपम्। अतिधी वरीति ॥ “डुधाञ् धारणपोषणयोः' आतो मनिन्क्वनिब्वनिपश्च' अन्येभ्योऽपि दृश्यते' इति भाषायामपि क्वनिप् “घुमास्था' इति ईत्वम्। धीवानमतिक्रान्ता इति विग्रहे “अत्यादयः' इति समासः । ङीप् रश्च, अतिधीवरीति रूपम् । भाष्ये तु ध्यायतेः क्वनिपि सम्प्रसारणे “हल