- सद्च्काण्डप्रान्तशतैकेभ्यः पुष्पात् ' (वा १४९६) । सत्पुष्पा । प्राक्पुष्पा ।
प्रत्यक्पुष्पा । * शूद्रा चामहत्पूर्वा जातिः' (वा २४००-२४०१) पुंयोगे तु शूद्री । “अमहत्पूर्वा' किम् । महाशूद्री । कुचा । उष्णिहा । देवविशा । ज्येष्ठा। कनिष्ठा । मध्यमेतिपुयागेडपि । कोकिला जातावपि । ‘मूलान्नञः’ (वा २५००) । अमूला । 'ऋन्नेभ्यो ङीप्' (सू ३०६) । कत्र । दण्डिनी ।
भस्त्रफलेति ॥ भस्त्रेव फलानि यस्या इति विग्रहः । “भस्राचर्मप्रसेविका' इत्यमरः । ननु भस्रा शब्दस्य नित्यस्त्रीत्वात् भाषितपुंस्कत्वाभावातू “स्त्रियाः पुंवत्' इति पुंवत्वस्याप्रसक्त्तेः कथं ह्रस्व इत्यत आह । ङयापोरिति ॥ ‘ङयापोस्संज्ञाच्छन्दसोर्बहुळम्’ इति हृस्व इत्यर्थः । अजिनफला शणफला, पिण्डफला, ओषधिविशेषसंज्ञाः । सद्च्काण्ड ॥ अयमपि “पाककर्ण' इति सूत्र पठितवार्तिकार्थसङ्ग्रहः । सत्, अच्, काण्ड, प्रान्त, शत, एक, एतेभ्यः परो यः पुष्पशब्दः तस्मादपि “पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाञ्च' इति ङीष् न भवति, किन्तु टाबेवेत्यर्थः । सत्पुष्पेति ॥ सन्ति पुष्पाणि यस्या इति विग्रहः । अच् इति लुप्तनकारः अञ्चूधातुः गृह्यते इत्यभिप्रेत्य उदाहरति । प्राक्पुष्पेति ॥ प्राचि पुष्पाणि यस्या इति विग्रहः । प्रत्यक्पुष्पति ॥ प्रत्यश्चि पुष्पाणि यस्या इति विग्रहः । काण्डपुष्पा। प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । शूद्रा चामहत्पूर्वा जातिः ॥ “ अजाद्यतः’ इति प्रकृतसूत्रे पठितं वार्तिकमेतत् । शूद्रजातिः वाच्या चेत् अमहत्पूर्वः शूद्रशब्दः स्त्रियां टापं लभते । जातिलक्षणङीषोऽपवादः । शूद्रात् स्वभार्यायां विधिना ऊढायामुत्पन्ना स्त्री शूद्रा । जातिरित्यस्य प्रयोजनमाह । पुंयोगे त्विति ॥ शूद्रस्य स्त्री इत्येव पुंयोगात् स्त्रियां व्यक्तौ जातिवाचित्वाभावान्न टाप् । किन्तु 'पुंयोगादाख्या याम्' इति ङीषेवेत्यर्थः । महाशूद्रीति ॥ महती च सा शूद्रा च इति विग्रहः । कर्मधारयः। पुंवत् कर्मधारय' इति पुवत्वम् । अत्र महत्पूर्वत्वान्न टाप्, किन्तु जातिलक्षणङीषेव । “ आ भीरी तु महाशूद्री जातिपुंयोगयोस्समे' इत्यमरः । नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्यां ब्राह्मणा दुत्पन्नः आभीरः, स्त्री चेदाभीरी । अत्र जातिग्रहंणस्य अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोद्दयोते च स्फुटः । कुञ्चेति ॥ कुञ्शब्दः चकारान्तः 'ऋत्विक् इत्यादिना क्विन्नन्तः । पक्षिजातिविशेषे वर्तते । “यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्” इति रामायणे । उष्णिहृशब्दः हकारान्तः छन्दोविशेषे “ऋत्विक्' इत्यादिना क्विन्नन्त एव । देववि श्शब्दः शकारान्तः, गणविशेषात्मकमरुत्सु वर्तते । “मरुतो वै देवानां विशः” इति श्रुतेः । एतेषामदन्तत्वाभावादप्राप्ते टापि तद्विधानार्थमजादिषु पाठः । “ङ्याप्प्रातिपदिकात्' इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तत्वम् आस्थितमिति ‘वष्टि भागुरिरल्लोपम्’ इति श्लोकव्या ख्यावसरे प्रपश्चितमनुपदमेव । ज्येष्ठेति ॥ यदा ज्येष्ठादिशब्दाः प्रथमोत्पन्नादौ वर्तन्ते तदा अदन्तत्वादेव टाप् सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्वादिविवक्षा तदापि पुयोगलक्षणं डीषं बाधित्वा टाबर्थमिह पाठ इत्यर्थः । कोकिलेति ॥ कोकिलशब्दस्य जातावपि जातिलक्षण ङीषं बाधित्वा टाबर्थमिह पाठः इत्यर्थः । मूलान्नञः इति ॥ “पाककर्ण' इति सूत्रे पठितं
( पाककर्ण-' इति प्राप्तस्य ङीषः) 'प्रतिषेधः' इति वार्तिकशेषः ।