पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३७
बालमनोरमा


अजाद्युक्तिडषो डीपश्च बाधनाय । अजा। अत , खट्टा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । 'द्विगोः' (सू ४७९) इति ङीप् । अत्र हि समा सार्थसमाहारनिष्टं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः। बाला । वत्सा । होढा । मन्दा । बिलाता । एषु “वयसि प्रथमे' (सू४७८) इति ङीप् प्राप्त । “ सम्भस्राजिनशणपिण्डेभ्यः फलात्' (वा २४९७) । सम्फ़ला । भस्त्रफला । “ङ-यापो:-' (सू १००१) इति ह्रस्व ।


रप्यजादिटाबपवाद इति फलति । अजशब्दः छागजातौ वर्तते । “ अजा छागी तुभच्छाग बस्तच्छगलकाः अजे' इत्यमरः । अजशब्दात् टाप् टपावितौ, सवर्णदीर्घः, व्यपदेशिवत्त्वात् अजान्तत्वम् । अतः इति ॥ उदाहरणं वक्ष्यत इति शेषः । खट्वेति ॥ “खट कांक्षायाम् अशूपुषिलटिकणिखटिविशिभ्यः क्वन्’ खट्टशब्दः अदन्तः तस्मात् टापि सवर्णदीर्घः । * शयन म्मञ्चपर्यङ्कपल्यङ्काः खट्टया समाः' इत्यमरः । ननु “प्रत्ययः, परश्च' इत्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वात् अजादिभ्यः अतश्च टाप् स्यात् स्त्रीत्वे द्योत्ये इत्यर्थ एव युक्तः । तथाच “अजाद्यत इति षष्ठयाश्रयणमयुक्तमित्यत आह । अजादिभिरिति । अजाद्यत इति षष्ठीमाश्रित्य अजा दीनाम् अदन्तस्य च वाच्ये स्त्रीत्वे टाबित्येवम् अजादिभिः स्त्रीत्वस्य विशषणादित्यर्थः । पञ्चाजीति ॥ पञ्चानामजानां समाहारः इति विग्रहे “तद्धितार्थ' इत्यादिना द्विगुः । “अका रान्तोत्तरपदो द्विगुः स्त्रियामिष्टः’ इति स्त्रीत्वम् । 'द्विगोः' इति ङीप्। ‘यस्येति च' इत्यकारलोपः। नन्वत्र समासे अजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत आह । अत्रेति ॥ हि यतः अत्र पञ्चाजशब्दे समासार्थभूतो यः समाहारः तन्निष्ठं स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशः ब्दस्य, अतोऽत्र न टाबित्यर्थः । नचोक्तरीत्या तदन्तविधिसत्त्वादजशब्दान्तस्य पञ्चाजेति समा सस्य ग्रहणात् तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यम् । सत्यपि तदन्तविधौ अजादीनां श्रुतत्वेन स्रीत्वस्य तद्विशेषणताया एव न्याय्यत्वात् । 'अजादिभ्यष्टाप् स्त्रीत्वे द्यौत्ये' इति व्याख्याने तु स्त्रीत्वस्य अजादिशब्दवाच्यत्वालाभात् समाहारनिष्ठमपि स्त्रीत्वमादाय टाप् स्यादिति भावः । अथाजादीनुदाहरति । अजेत्यादिना । एडकेति ॥ 'मेण्डोरभ्रोरणोर्णायुमेषवृष्णय् एडके इत्यमरः । अस्य स्रीत्वे कोशान्तरम्मृग्यम् । अश्वेति ॥ * वाम्यश्वाबडबा' इत्यमरः । चट केति ॥ चटकः पक्षिजातिविशेषः । अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम् । अमरतु *चटकः कल विङ्कस्यात्तस्य स्त्री चटका' इत्याह । मूषिकेति ॥ ‘चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका' इत्यमरः । एषु जातीति ॥ अजादिपञ्चसु 'जातेरस्री' इति ङीष् प्राप्तः । सः अजादिटापा बाध्यते इत्यर्थः । बालादयः प्रथमवयोवचनाः, तत्र होढादित्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः । एष्विति ॥ बालादिपञ्चसु * वयसि प्रथमे' इति ङीप् प्राप्तः । सः अजादिटापा बाध्यते इत्यर्थः । सम्भस्त्रेति ॥ “पाककर्ण' इति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतस्स ङ्गृहीतम् । सम्भस्रा, अजिन, शण, पिण्ड, एतेभ्यः परो यः फलशब्दः तस्मादपि “पाककर्ण इति ङीष् न भवति, किन्तु टाबेवेत्यर्थः । सम्फलेति ॥ समृद्धानि फलानि यस्या इति विग्रहः। 8