पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता


४५४ । अजाद्यतष्टाप् । (४-१-४)

अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् ।


भाष्ये “अवश्यन्तावत् कश्चित् स्वकृतान्त आस्थेयः” इति, वैयाकरणसिद्धान्त इत्यर्थः । “कृतान्तौ यमसिद्धान्तौ' इत्यमरः । तत्र टिघुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसामर्थ्यात् सति सम्भवे स्तनकेशवतीत्यादिलौकिकं लिङ्गमप्यत्राश्रीयते । अन्यथा “पशुना यजेत’ इत्यत्र स्त्रीव्यक्तावपि सत्वाद्युपचारात्मकपुंस्त्वाद्यनपायात् “ आङो नाऽस्त्रियाम्' इति नाभावस्याविरोधात् स्रीपशुरप्यालभ्येत । तदेतच्चतुर्थस्य प्रथमपादे 'तथालिङ्गम्' इत्यधिकरणे अध्वरमीमांसाकुतूहल वृत्ताववोचाम। त्रिविधमपि एतलिङ्गं जातिव्यक्तिवत् प्रातिपदिकार्थ एव। प्रत्ययार्थत्वे प्राधान्यापत्ती अजा, खट्टा, इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नानादिबोधोऽनुभवसिद्धो विरुध्द्येत । किञ्च मातृदुहितृस्वसृगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात् प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम् । 'ऋकारान्ता मातृदुहितृस्वसृयातृ ननान्दरः, प्रावृड़िपुडूक्त्विषः' इत्यादिलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव दृश्यन्ते । अत एव च “कृदिकारादक्तिनः' इत्यत्र अक्तिन इत्येतदर्थवत् । अन्यथा अक्तिनैव स्रीत्वस्योक्तत्वात् डीपोऽप्राप्तः तद्वैयर्थ्य स्पष्टमेव । नचैवमपि प्रकृत्यैव स्रीत्वस्योक्तत्वात् कथं टाबादय इति वाच्यम् । द्वावित्यादिवत् प्रकृत्युक्तस्याव्यावर्तकत्वात् । अन्यथा टाबादिविधिवैयर्थ्यात् । तथाच स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यम् । टाबादयस्तु तद्दद्योतकाः। तथाच टाबादिषु सत्सु अवश्यं स्त्रीत्वबोधः इति नियमः, नतु टाबादिषु सत्स्ववेति नियम इति । अजाद्यतष्टाप् ॥ अजः आदिर्येषान्ते अजादयः ते च अच्चेति समाहारद्वन्द्वात् षष्ठी “डयाप्प्रातिपदिकात्' इत्यतः प्राति पदिकादित्यनुवृत्तं षष्ठया विपरिणतम् अजादिभिः अता च विशेष्यते, तदन्तविधिः । तत्राद्विषये समासप्रत्यविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः’ इति निषेधेो न, ‘उ गिद्वर्णग्रहणवर्जम्’ इत्युक्तेः । डयाब्ग्रहणन्तु नानुवर्तते “स्त्रियाम्' इत्यधिकारे तयोर्विधेयत्वात् । नच अजादिभिः प्रातिपदि कस्य विशेषणेऽपि तदन्तविधिर्नास्ति “समासप्रत्ययविधौ' इति निषेधात् “ग्रहणवता प्राति पदिकेन तदन्तविधिर्न' इति च निषेधादिति वाच्यम् । ‘शूद्रा चामहत्पूर्वा जातिः’ इत्यत्र अमह त्पूर्वेति वचनेनात्र तदन्तविधिज्ञापनात् । किञ्च स्त्रियां व्यक्तौ गम्यमानायामिति नार्थः । तर्हि अजा खट्टेत्यादौ अजत्वाद्याकारेण वस्तुतः स्त्रीव्यक्तौ गम्यमानायां टाबादिप्रत्ययाः स्युः । ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भानन्न नियतं स्यात् । अतः स्त्रियामिति भावप्रधानो निर्देशः । स्त्रीत्वे इति यावत् । तदाह । आजादीनामित्यादिना ॥ अजाद्यन्तानामित्यर्थः । द्योत्ये इति ॥ उक्तरीत्या स्त्रीत्वस्य प्रातिपदिकार्थत्वादिति भावः । उक्तं च भाष्ये “त्रियां यत् प्रातिपदिकं वर्तते तस्माट्टाबादयो भवन्ति स्वार्थे” इति । टाप् स्यादिति ॥ 'प्रत्ययः, परश्च' इत्यधिकृतम् । कस्मात् परो भवतीत्याकांक्षायां सन्निधानात् अजादिभ्यः अदन्ताच्चेति बोध्यम् । ननु अजादिगणे अज, अश्व , इत्याद्यदन्तपाठो व्यर्थः, अदन्तत्वादेव सिद्धेरित्यत आह । अजाद्युक्तिरिति ॥ 'वयसि प्रथमे, जातेरस्रीविषयात्' इत्यादिवक्ष्यमाणस्य ङीपो ङीषश्च अदन्तटाबपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः । एवञ्च अदन्तटाबपवादौ ङीप्ङीषौ तयो