पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८०
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता
६६८ । लक्षणेनाभिप्रती आभिमुख्ये । (२-१-१४)

आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्राग्वत् । अभ्यग्नि शलभाः पतन्ति, अग्निमभि । प्रत्यग्नि अग्निं प्रति ।

६६९ । अनुर्येत्समया । (२-१-१५)

यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययी भावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ।

६७० । यस्य चायामः । (२-१-१६)

यस्य दैर्ध्यमनुना द्योत्यते तन्न लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्ध्यसदृशदैर्ध्योपलक्षितेत्यर्थः ।

६७१ । तिष्ठदुप्रभृतीनि च । (२-१-१७)


इत्युभयत्रापि कर्मप्रवचनीयत्वात् “पञ्चम्यपाड्परिभिः’ इति पञ्चमी । लक्षणेनाभि ॥ लक्षणे त्येतव्याचष्टे । चिह्नवाचिनेति । प्राग्वदिति । समस्यते सोऽव्ययीभाव इत्यर्थः । अभ्यग्नि शलभाः पतन्तीति ॥ शलभाः क्षुद्रजन्तुविशेषाः स्थूलमक्षिकाः । अग्रिम भीति । विग्रहोऽयम् । “ अभिरभागे' इति “लक्षणेत्थम्' इति चाभिप्रत्योः कर्मप्रवचनीयत्वं अग्निज्ञाप्यं, तदभिमुखञ्च शलभपतनमित्यर्थः । अनुर्यत्समया ॥ लक्षणेनेत्यनुवर्तते । यदिति समयायोगे “अभितः परितः' इति द्वितीयान्तम्, सामान्ये नपुंसकम् । तदाह । यं पदार्थमिति । अनुवनमिति । अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः । वन समीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् । तदाह । वनस्य समीपं गत इत्यर्थः इति ॥ वस्तुतो लक्षणीभूतस्य वनस्य समीपं गत इति यावत् । “अव्ययं विभक्ति' इत्यादिना सिद्धे विभाषार्थमिदं सूत्रम् । ततश्च वनस्यानु इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्म प्रवचनीयसंज्ञा शङ्कया । वस्तुतस्सैवात्र लक्षणत्वनिमित्तत्वाश्रयणात् । लक्षणत्वस्य ज्ञातस्य निमिः त्तत्वे तु वनमनु इत्येव वाक्यमुदाहार्यम् । यस्य चायामः ॥ लक्षणेनेत्यनुवर्तते । अनुरित्य नुवृत्य आकृत्य आयाम इत्यत्र तृतीयया विपरिणम्यते । तत्र एकं लक्षणेनेत्यत्र सम्बध्द्यते । द्वितीयन्तु अनुनेत्येतत् “यस्य वायामः' इत्यनन्तरं सम्बध्द्यते । द्योत्यत इति शेषः । आयामो दैघ्र्यम् । तदाह । यस्य दैर्ध्यमिति । यद्वैर्ध्यसदृशं दैर्ध्यमित्यर्थः । समस्यते इति ॥ सोऽव्ययीभावः इत्यपि बोध्यम् । अनुगङ्गमिति समासः । लौकिकविग्रहं दर्शयति । गङ्गायाः अ न्विति ॥ इहापि लक्षणत्वं वस्तुसदेव निमित्तम्, नत्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैर्ध्यसदृशं दैर्ध्य लक्ष्यते । तदेवानुद्योत्यम् । तदाह । गङ्गादैर्घ्येति ॥ तिष्ठदुप्रभृतीनि च ॥ एतानीति ॥