एतानि निपात्यन्ते । तिष्ठन्ति गावो यस्मिन्काले स तिष्ठद्रु दोहनकाल
आयतीगवम् । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते । खले
यवम् इत्यादि ।
६७२ । पारे मध्ये षष्ठया वा । (२-१-१८)
पारमध्यशब्दौ षष्ठयन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्टीतत्पुरुष । पारेगङ्गादानय-गङ्गापारात् । मध्येगङ्गात्-गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया मध्यात् ।
शब्दरूपाणीत्यर्थः। तिष्ठन्ति गाव इति ।। फलितार्थकथनम् । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम् । 'सुप्सुपा' इत्यनुवृत्तेः । दोहनकालः इति । तदा गवां शयनोपवेशनयोरभावादिति भावः। आयतीगवमिति।। आयत्यो गावो यस्मिन् काले इति विग्रहः। इहेति उदाहरणद्वये इत्यर्थः। शत्रादेशइति।। तिष्ठन्त्यो गाव इति आयत्यो गाव इति च प्रथमासमानाधिकरणत्वात् * लटश्शतृशानचौ' इत्यप्राप्तौ तन्निपातन मिति भाव पुवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि स्त्रियाः पुंवत्' इति पुंवत्त्वस्य प्राप्तौ तदभावः निपात्यते इति भावः। समासान्तश्चेति॥ आयतीगोशब्दस्य टच् समासान्ता निपात्यते। तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः। समासान्तश्चेति चकारात् अव्ययीभावश्च निपात्यते इति ज्ञेयम्। तथाच तिष्ठद्रोशब्दस्य नपुंसक ह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । आयतीगवशब्दात्तु “नाव्ययीभावात्' इत्यम्भाव इत्यादि फलति । इत्यादीति । खलेयवं खलेबुसम् इति सप्तम्या अलुक् इत्यादि ग्राह्यम् । पारे मध्ये षष्ठया वा ॥ पारे मध्ध्ये इति न सप्तम्यन्तयोर्ग्रहणम् । किन्तु पारमध्यशब्दयोरेव इत्याह । पार मध्यशब्दाविति ॥ समस्येते इति । अव्ययीभावसंज्ञेों चेवत्यपि बोध्द्यम्। ननु पारमध्द्यशब्द योरकारान्तयोः ग्रहणे कथं एकारनिर्देश इत्यत आह । एदन्तत्वञ्चेति ॥ ननु विभाषा इत्यधि कारादेव सिद्धे वाग्रहणं किमर्थमित्यत आह । पक्षे षष्ठीतत्पुरुष इति । वाग्रहणाभावे मव्ययीभावसमासः विशेषविहितत्वात् षष्ठीसमासं बाधेत । तदबाधार्थे वाग्रहणामिति भाव पारेगङ्गादानयेति गङ्गायाः पारात् इति विग्रहे अव्ययीभावसमासे साति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकह्रस्वत्वे पारेगङ्गशब्दात् समासात्पुनः पञ्चम्युत्पत्तिः। अव्ययादाप्' इति न लुक् । अदन्ततया ‘नाव्ययीभावात्' इति निषेधात् । अपञ्चम्याः इति पर्यु दासादम्भावश्च नेति भावः । गङ्गापारादिति । षष्ठीसमासपक्षे ज्ञेयम् । मध्येगङ्गादिति पारेगङ्गादितिवदूपम् । गङ्गामध्यादिति । षष्ठीसमासे ज्ञेयम् । पारे मध्ये इति सप्तम्यन्ते षष्ठया समस्यते इति व्याख्यानतु गङ्गायाः पारे मध्ये इति विग्रहे समासे सति 'तत्पुरुषे कृति बहुळम्’ इति बहुळग्रहणात् सप्तम्योरलुकि नपुंसकह्रस्वत्वे समासात् पुनरुत्पन्नायाः सप्तम्याः अम्भावे “पारेमध्यं, पारेगङ्गम्’ इति सिद्धेः एकारनिर्देशो व्यर्थः स्यात् । अतः यत्र सप्तम्यर्थो न सम्भवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणामिति बोध्यम् । ननु यदि वाग्रहणमिह पक्ष षष्ठीसमासप्राप्त्यर्थमेव स्यात् । तर्हि गङ्गायाः पारात्