पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४७९
बालमनोरमा ।

६६६ । अपपरिबहिरञ्चवः पञ्चम्या । (२-१-१२)

अपविष्णु संसारः-अप विष्णोः । परिविष्णु-परि विष्णोः । बहि र्वनम्--बहिर्वनात् । प्राग्वनम्-प्राग्वनात् ।

६६७ । आङमर्यादाभिविध्योः । (२-१-१३)

एतयोराड् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः—आ मुक्त्तेः । आबालं हरिभक्तिः—आा बालेभ्यः ।


उपपदमतिङ्’ ‘कर्तृकरणे कृता बहुळम् ’ “ आख्यातमाख्यातेन क्रियासातत्ये' इत्यादी सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याप्रसिद्धेः । अतस्तेषु समासविधानस्यावश्यकत्वात् अर्थाधि कारानुरोधात् सर्वत्र समास इत्यनुवृत्तं विधेयसमर्पकमित्यास्थेयम् । तत्र “सुप्सुपा' इत्येव सिद्धे “ अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु समाससंज्ञाविधानं व्यर्थं स्यात् । ततः प्राचीनविधेः वैकल्पिकत्वं ज्ञापयति । न चाव्ययीभावादिविधिषु समासविध्यभावे अव्ययादीनां समासशास्त्रे प्रथमानिर्दिष्टत्वाभावेन उपसर्जनत्वाभावात् पूर्वनिपातनियमो न स्यात् । तदर्थमव्ययीभावादिविधिषु समासविधानञ्चरितार्थमिति वाच्यम् । प्रथमानिर्दिष्टम् इति सूत्रे समास इत्यस्य समासत्वव्याप्याव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेन अव्ययादीनाम् उपसर्जनत्वसिद्धेः वक्तुं शक्यत्वात् । तस्मादव्ययीभावादिविधिषु समास विधानं “सुप्सुपा' इति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् । “ आकडारात्’ इति सूत्रभाष्ये “सुप्सुपा' इति समासविषये विस्पष्टं पटुः विस्पष्टपटुः” इति विग्रहप्रदर्शनपरभाष्यच्चेह लिङ्गमित्यलं बहुना । एवञ्च 'इवेन समासः’ इत्यादि वैकल्पिकमिति सिद्धम् । यद्यपि नित्य समासाधिकारे ‘कुगति’ इत्यत्रापि इवेनेति वार्तिकं पठितम् । तथापि “सुप्सुपा' इत्यत्र पठितभेव तत्रापि स्मार्यत इति कैयटः । अपपरिबहिः ॥ समस्यन्ते सोऽव्ययीभाव इति शेषः । अपविष्ण्विति ॥ अत्र अप इत्यव्ययं वर्जने । विष्णु वर्जयित्वा संसरणमित्यर्थः । अप विष्णोरिति।। लौकिकविग्रहवाक्यम् । समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाभावात् । अपपरी वर्जने' इति अपत्यव्ययस्य कर्मप्रवचनीयत्वात् तद्योगे ‘पञ्चम्यपाङ्परिभिः’ इति पञ्चमी । तदन्तेन अपेत्यस्याव्ययीभावसमासः, सुब्लुक् । अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । समासात् सुबुत्पत्तिः । ‘अव्ययादाप्सुपः' इति लुक् । एवं यथायथमग्रेऽपि ज्ञेयम् । परि विष्ण्विति । अत्रापि परिर्वर्जने । पञ्चम्यादि पूर्ववत् । बहिर्वनम्--बहिर्वनादिति ॥ अस्मादेव ज्ञापकात् बहिर्योगे पञ्चमी । इतरत् पूर्ववत् । अदन्तत्वादम्भावः । प्राग्वनम्-- प्राग्वनादिति ॥ अञ्चूत्तरपदयोगे पञ्चमी । आङार्यादाभिविध्योः । एतयोरिति ॥ मर्यादाभिविध्योः ।विृद्यमानादित्यर्थ मर्यादायामुदाहरति । आमुक्तीति ॥ मुक्तः प्रागि त्यर्थः । अभिविधावुदाहरति । आबालमिति । बालानारभ्य इत्यर्थः । “आड्र्यादावचने