पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६६
सिद्धान्तकौमुदीसहिता


६४६ । विभाषा कृञि । (१-४-९८)

अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यते इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् *तिडिः चोदात्तवति' (सू ३९७८) इति निघातो न ॥

इति सप्तमी विभक्तिः ।

इति कारकादिविभक्तिप्रकरणम् ।


सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात् 'अषडक्षाशितङ्कलङ्कर्माल म्पुरुषाध्युत्तरपदात् खः' इति खप्रत्यये 'आयनेयीनीयिय:’ इति तस्य ईंनादेशे रामाधीना भूरिति सिद्धति । रामस्वामिकेत्यर्थः । विभक्तयर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकर णिका भूरित्यर्थः । खप्रत्ययस्तु न । अध्युत्तरपदत्वाभावात् । विभाषा कृञि।। * अधिरीश्वरे ’ इत्यनुवर्तते । कर्मप्रवचनीया इत्यधिकृतम् । तदाह । अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीश्वरत्वे इति यावत् । यदत्र मामधिकरिष्यतीति ॥ अस्मिन्विषये मामधिकरिष्यतीति यत्तद्युक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतत् व्याचष्टे । विनियोक्ष्यत इत्यर्थः इति ॥ तर्हि कर्मत्वादेव द्वितीया सिद्धेः किं कर्मप्रवचनीयत्वनेत्यत आह । अगतित्वादिनि ॥ तिङि चेति ॥ उदात्तवति तिडिः परे गतिर्निहन्यत इति तदर्थः । अत्र करिष्यतीति तिङन्तमुदात्तवान् । “तिङ्ङतिङः' इति निघातस्य “निपातैर्यत्' इत्यादिना निषेधात् । ततश्च अधेरत्र गतित्वान्निघातः इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति । तेन गतित्वस्य बाधात् । अतः अधर्निघाताभावा र्थमिदं सूत्रमिति सिद्धम् ॥

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमाख्यायां विभक्तयर्थनिरूपणं समाप्तत्