लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देश: । अधिकशब्देन योगे सप्तमी पञ्चम्याविष्येते । “तदस्मिन्नधिकम्--' (सू १८४६) इति “यस्मादधिकम् (सू ६४५) इति च सूत्रनिर्देशात् । लोके-लोकाद्वा अधिको हरिः ।
६४४ । अधिरीश्वरे । (१-४-९७
स्वस्वामिसम्वन्धे अधिः कर्मप्रवचनीयसंज्ञः स्यात् ।
६४५ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । (२-३-९)
अत्र कर्मप्रवचनीययुक्त सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धा दधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । आधि भुवि रामः । अधि रामे भूः । * सप्तमी शौण्डैः' (सू ७१७) इति समासपक्षे तु रामा धीना । “ अषडक्ष-' (सू २०७९) इत्यादिना खः ।
कर्त्रादिपरत्वे त्विह न स्यात् । क्ताप्रत्ययस्य कर्त्रैकत्वे विधानात् । कर्तृशक्तिस्तु भुजिक्रिया भेदात् भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति । इहस्थोऽयमिति ॥ इहापि देशतस्सामी पिकमधिकरणत्वं पञ्चमीसप्तम्योरर्थः । इह तिष्ठन्नयं इष्वासः इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्येदित्यर्थः । कर्तृकर्मशक्त्योरिति ॥ कर्तृत्वकर्मत्वरूपशक्तयोर्मध्ध्ये इत्यर्थः । कारकशब्दस्य कर्त्रादिपरत्वे त्विहैव स्यात् । अद्य भुक्तायमित्यत्र न स्यादिति सूचयितुमिदमप्यु दाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसम्बन्धे शेषषष्ठयेवोचितेत्याशङ्कय आह। अधिकशब्देनेथि ॥लोके लोकाद्वेति ।।अवधित्वसम्बन्धस्सप्तमीपञ्चम्योरर्थः। लोकापेक्षया श्रेष्ठ इत्यर्थः । अधेः कर्मप्रवचनीयकार्य वक्ष्यन् कर्मप्रवचनीयमाह । अधिरीश्वरे ॥ इँश्वरशब्देन ईश्वरत्वं स्वस्वामिभावसम्बन्धात्मकं विवक्षितम् ।'कर्मप्रवचनीयाः’ इत्यधिकृतम् एकवचनान्ततया विपरिणम्यते । तदाह । स्वस्वामीति । यस्मादधिकम् ॥ कर्मप्रवचनी ययुक्ते इत्यनुवर्तते । तदाह । अत्र कर्मप्रवचनीयेति ॥ शेषषष्ठयपवादः । उपपरार्धे इति ॥ अवधित्वं सप्तम्यर्र्थः । तदाह । परार्धादधिका इत्यर्थः इति । यस्मादधिकं सङ्खयान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । “उपोऽधिके च' इति उपेत्यस्य कर्म प्रवचनीयत्वस्येदं फलम् । यस्येश्वरवचनामित्यस्य यत्सम्बन्धी ईश्वर उच्यते ततस्सप्तमीत्येकी ऽर्थः । इह यच्छब्देन स्वमुच्यते । एवञ्च स्ववाचकात्सप्तमीति लभ्यते । ईश्वरशब्दो भाव प्रधानः । यस्येश्वरत्वमुच्यते ततस्सप्तमी इत्यन्योऽर्थः । यन्निष्ठमीश्वरत्वमुच्यते ततस्सप्तमीति यावत् । एवञ्च स्वामिवाचकात्सप्तमीति लभ्यते । तदाह । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति ॥ अधिभुवि राम इति ॥ अधिरीश्वरपर्यायः । सम्बन्धस्सप्तम्यर्थ भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । अधिरामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धस्सप्तम्यर्थः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी । सम्मासपक्षे त्विति ॥ शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाधिशब्देन रामे इति