पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६४
[कारके सप्तमी
सिद्धान्तकौमुदीसहिता

आभ्यां योगे सप्तमी स्यादर्चायाम्, नतु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । ' अर्चायाम्' किम् । निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् । ' अप्रत्यादिभिरिति वक्तव्यम्’ (वा १४९३) । साधुर्निपुणो वा मातरं प्रति परि अनु वा ।

६४१ । प्रसितोत्सुकाभ्यां तृतीया च । (२-३-४४)

आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको हरिणा-हरौ वा ।

६४२ । नक्षत्रे च लुपि । (२-३-४५)

नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमाना तृतीयासप्तम्यौ स्तोऽधिकरणे । 'मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् मूले श्रवणे इति वा । “लुपि' किम् । पुष्ये शनिः ।

६४३ । सप्तमीपञ्चम्यौ कारकमध्ये । (२-३-७)

शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यामेते स्तः । अद्य भुक्त्वायं व्द्यहे व्द्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे-क्रोशाद्वा


निपुणो वेति ॥ मातरि कुशल इत्यर्थः । शुश्रूषायामिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चो विनापि सप्तमी भवत्येव । 'साध्वसाधुप्रयोगे च' इत्युक्त्तेः । इह साधुग्रहणन्तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम्। अप्रत्यादिभिरिति ॥ प्रति, परि, अनु, एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः । प्रसितोत्सुकाभ्याम् ॥ ‘तत्परे प्रसितासक्ताविष्टार्थोयुक्त उत्सुकः' इत्यमरः । वैषयिकाधिकरणत्वे सप्तम्यामेव प्राप्तायामिदं वचनम् । नक्षत्रे च लुपि ॥ नक्षत्र इत्यनन्तरं प्रकृत्यर्थे सतीति शेषः । लुप्शब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो विवक्षितः । तदाह । नक्षत्रे प्रकृत्यर्थे इति ॥ अधिकरण इति ॥ * सप्त म्यधिकरणे च' इत्यतः मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनेति । मूलनक्षत्रयुक्ते काले इत्यर्थः । 'नक्षत्रेण युक्तः कालः' इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूलं प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् । सप्तमी पञ्चम्यौ ॥ कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कर्त्रादिपरः, व्याख्यानात् । मध्यस्याव विद्वयसापेक्षत्वात् कारकयोर्मध्यामिति विग्रहः । तदाह । शक्तिद्वयमध्ये इति । “कालाध्वनो स्त्यन्तसंयोगे' इत्यनुवृत्य पञ्चम्यन्ततया विपरिणम्यते इत्याह । यौ कालाध्वानाविति ॥ अद्य भुक्त्वेति ॥ सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्का द्यहे अतीते तत्समीपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट्। कर्तृशक्त्योरिति । अद्यतन भुजिक्रियानिरूपितकर्तृत्वस्य व्द्यहोत्तरदिनगतभुजिक्रियानिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य