सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४६३
बालमनोरमा ।

६३८ । यतश्च निर्धारणम् । (२-३-४१)

जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यत स्ततः षष्ठीसप्तम्यौ स्तः । नृणां-नृषु वा ब्राह्मणः श्रेष्ठः । गावा-गोषु वा कृष्णा बहुक्षीरा। गच्छतां-गच्छत्सु वा धावञ्छीघ्रः । छात्राणां-छात्रेषु वा मैत्रः पटुः।

६३९ । पञ्चमी विभक्ते । (२-३-४२)

विभागो विभक्त निर्धार्यमाणस्य यत्र भेद एव तत्र पश्चमी स्यात् । माधुराः पाटलिपुत्रकेभ्य आढ्यतराः ।

६४० । साधुनिपुणाभ्यामचर्चायां सप्तम्यप्रतेः । (२-३-४३)


गौरिति । आडीषदर्थे । ‘युजिर्योगे' । तदाह । ईषद्युक्त इत्यर्थ इति । यतश्च निर्धा रणम् ॥ जातिगुणेति । यत इति तत इति च पञ्चम्यर्थे तसिः । यस्मात्समुदायात् एक देशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात् षष्ठीसप्तम्यावित्यर्थः । अत्र स्वशब्देन एकदेश उच्यते । तत्र जात्या पृथक्करण मुदाहरति । नृणां नृषु वेति ॥ नृशब्दो मनुष्यसमुदाये वर्तते । उदभूतावयवभेदविवक्षायां बहुवचनम् । द्विज इति तु जात्यभिप्रायमेकवचनम् । षष्ठीसप्तम्योः अवयवावयविभावस्सम्बन्धो ऽर्थः उदाहृतनिर्धारणविषयत्वरूपश्च । ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तश्रेष्ठय रूपधर्मक इत्यर्थः । गुणेन पृथकरणमुदाहरति । गवां गोषु वेति । गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थ । क्रियया पृथकरणमुदाहरति । गच्छतां गच्छत्सु वेति ॥ गच्छत्समुदायैकदेशभूतो धावन् स्वेतरव्यावृत्तशैघ्रयधर्मक इत्यर्थः । संज्ञया पृथकरणमुदाहरति । छात्राणामिति ॥ छात्रसमुदायेकदेशभूतो मैत्रनामा स्वेतर व्यावृत्तपटुत्वधर्मक इत्यर्थः । पञ्चमी विभक्त्ते ॥ विभागो विभक्तमिति ॥ भावे क्तप्रत्ययाश्रयणादिति भावः । “यतश्च निर्धारणम्' इत्यनुवर्तते । निर्धारणावधिभूतानां मनुष्या दीनां निर्धार्यमाणानां द्विजातीनाञ्च सामान्यात्मना अभेदो विशेषात्मना भेदश्च स्थितः । एवञ्च निर्धारणे सर्वत्र कथञ्चिद्भेदस्य सत्त्वात् विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, नतु केनाप्युपात्तरूपेण अभेदः, तत्रैवास्य प्रवृत्तिरित्य भिप्रेत्य आह । निर्धार्यमाणस्येति । निर्धारणावधेरिति शेषः । 'यतश्च निर्धारणम् । इत्यनुवृत्तेः । अत्रावधिव्यावृत्तधर्मवत्वबोधनमेव, नतु समुदायादेकदेशस्येत्यंशो विवक्षितः । असम्भवादित्यभिप्रेत्योदाहरति । माधुरा इति ॥ अवधित्वं पञ्चम्यर्थः । मधुरादेशीया पाटलीपुत्रकदेशीयापेक्षया अतिशयनाढ्या इत्यर्थः । अत्र मधुरादेशीयत्वपाटलीपुत्रकदेशी यत्वयोः गोत्वाश्चत्ववद्विरोधात् कथञ्चिदपि तदूपेण नाभेद इति निर्धारणावधेः पञ्चमीति भावः । साधुनिपुणाभ्याम् ॥ शेषषष्ठयपवादः । मातरि साधुरिति ॥ हितकारीत्यर्थः ।