पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
[कारके सप्तमी
सिद्धान्तकौमुदीसहिता

६३५ । षष्ठी चानादरे । (२-३-३८)

अनादराधिके भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदात रुदता वा प्राब्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ।

६३६ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । (२-३-३९)

एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्टयामेव प्राप्तायां पाक्षिक सप्तम्यर्थं वचनम् । गवां-गोषु वा स्वामी । गवां-गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ।

६३७ । आयुक्तकुशलाभ्यां चासेवायाम् । (२-३-४०)

आभ्यांयोगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे। आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने-हरिपूजनस्य वा । “ आसेवायाम्' किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ।


कालो लक्ष्यत इत्यधिकरणसप्तम्यवत्यन्यत्र विस्तरः। षष्ठी चानादरे ॥ चात्सप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । 'यस्य च' इति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह । अनादराधिके इति ॥ अनादरो अधिको यस्मादिति विग्रहः । रुदति रुदत इति ॥ कदा सन्नयस्तवानिति प्रश्रे उत्तरमिदम् । अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । षष्ठी सप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविवयः । वर्तमानरोदनक्रियाविशिष्ट पुत्रादिज्ञाप्यं प्रव्रजनमित्यर्थः । फलितमाह । रुदन्तं पुत्रादिकमिति ॥ स्वामीश्वर ॥ षष्ठी सप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ठयैव सिद्धे किमर्थमिह षष्ठीविधानामित्यत आह । षष्ठयामेवेति ॥ गवां गोषु वेति ॥ गोसम्बन्धीत्यर्थः । गवां गोषु वा ईश्वरः । गवां गोषु वा अधिपतिः । गवां गोषु वा दायादः । पुत्रादिभिर्ग्रहीतुं योग्यः पित्राद्यार्जितधनांशो दायः । तमादत्ते इति दायादः। 'आतश्चोपसर्गे' इति उपसर्ग अङ्विधौ ग्रहणे सत्यपि अत एव निपातनात् कः । गोसम्बन्धिदायाद इत्यर्थः । गवाञ्च दाये अन्वयः । नित्यसाकाङ्क्षत्वादृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । “यस्मादाधिकम्' इति सूत्रभाष्ये तु दायादशब्दः स्वामिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति ॥ गोसम्बन्धीत्यर्थः । सम्बन्धश्च भोक्तृत्वरूपः । तदाह । गा एवेति ॥ एवशब्दात् महिषादि व्यावृत्तिः। आयुक्त ॥ आसेवापदं व्याचष्टे । तात्पर्ये इति ॥ औत्सुक्ये इत्यर्थः । 'तत्परे प्रसि तासक्ताविष्टार्थोद्युक्त उत्सुकः' इत्यमरः । आयुक्तपदं व्याचष्टे। व्यापारित इति ॥प्रवर्तित इत्यर्थः। आयुक्तः कुशलो वेति ॥ हरिपूजनविषये आयुक्तः प्रवर्तित इत्यर्थः। अत्र वैषयिकाधिकरणत्व विवक्षायां सप्तम्यामेव प्राप्तायां सम्बन्धमात्रविवक्षायां तु षष्ठयामेव प्राप्तायां वचनम्। आयुक्तो