पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथाव्ययीभावसमासप्रकरणम् ॥


६४७ । समर्थः पदविधिः । (२-१-१)

पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ।


तदेवं विभक्तयर्थ निरूप्य तदाश्रितसमासान्निरूपयिष्यन् तदुपोद्धातत्वेनाह-समर्थः पदविधिः । विधीयते इति विधिः कार्यम् । पदस्य विधिः पदविधिरिति शेषषष्ठया समासः । तदाह । पदसम्बन्धी यो विधिरिति ॥ समर्थाश्रित इति ॥ सूत्रे समर्थशब्दस्स मर्थाश्रिते लाक्षणिक इति भावः । सामर्थ्य द्विविधम् । 'व्यपेक्षालक्षणम्, एकार्थीभावलक्षणञ्च । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयः तत् व्यपेक्षाभिधं सामर्थ्यम् । विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः । सम्बन्धार्थस्समर्थ इति व्युत्पत्तेश्च । इदञ्च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तत्र च एकैकस्य शब्दस्य यो यस्सन्निहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽश्वश्चेति, राज्ञा देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुषः, इति च । एकार्थीभावलक्षणसामर्थ्यन्तु प्रक्रियादशायां प्रत्येकमर्थवत्वेन पृथक् गृहीतानां पदानां समुदायशक्तया विशिष्टैकार्थप्रतिपादकतारूपम् । सङ्गतार्थस्समर्थः, संसृष्टार्थस्समर्थ इति व्युत्पत्तेः । सङ्गतिस्संसर्गश्च एकीभाव एव । यथा सङ्गतं घृतं तैलेनेति, एकीभूतमिति गम्यते । यथा वा संसृष्टोडग्निरिति, एकीभूत इति गम्यत इति भाष्याच्च । इदञ्च सामर्थ्य राजपुरुष इत्यादिवृत्तावेव । अत एव ऋद्धस्य राजपुरुष इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणन्नान्वेति । विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात् । देवदत्तस्य गुरुकुलमित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात् समासः । यदा गुरुवद्देवदत्तोऽपि विशेष्ये प्रधाने कुल एवान्वेति, तत्र गुरुणा कुलस्य उत्पाद्यत्वसम्बन्धेनान्वयः । देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तञ्च हरिणा–“ सम्बन्धिशब्दस्सापेक्षो नित्यं सर्वस्समस्यते । वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न ह्रीयते ॥” इति । “समुदायेन सम्बन्धो येषां गुरुकुलादिना । *संसृष्टावयवास्ते तु युज्यन्ते तद्वता सह ॥” इति च । एतेन * अयश्शूल' इति सूत्रे भाष्ये 'शिवस्य भक्तः’ इत्यर्थे शिवभागवतः इत्यादि व्याख्यातम् । एकार्थीभावश्चायम् अलौकिकविग्रहवाक्ये कल्प्यते । यथा लादेशभूतशतृशानचोः अप्रथमासामानाधिकरण्यं लकारेऽपि कल्प्यते तद्वत् । अत एव “लस्य अप्रथमासमानाधिकरणेनार्थेनायोगादादेशेऽनुपपत्तिः, तस्य क्वापि प्रयोगाभावादित्याक्षिप्य


“संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह” इति पाठान्तरम् ।