पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
[कारके चतुर्थी
सिद्धान्तकौमुदीसहिता

'अप्राणिष्वित्यपनीय नौकाकान्नशुकसृगालवर्जेष्विति वाच्यम्’ (वा १४६४) । तेन ' न त्वां नावं मन्ये' इत्यत्राऽप्राणित्वेऽपि चतुर्थी न । ' न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ।

५८५ । गत्यर्थकर्मणि द्वितीयाचतुथ्य चेष्टायामनध्वनि । (२-३-१२)

अध्वभिन्ने गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्राम ग्रामाय वा गच्छति । ' चेष्टायाम्' किम्। मनसा हरिं व्रजति । ' अनध्वनि ' इति किम् । पन्थानं गच्छति । गन्त्राऽधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥

इति चतुर्थी विभक्तिः ।

शङ्कया । अनादरद्योतके कर्मणि इत्यर्थस्य विवक्षितत्वात् । तृणमेव ह्यत्रानादरद्योतकम्, न तु युष्मदर्थः । श्यनेति । तानादिकमनुधातुकर्मणि द्वितीयैव, नतु पक्षे चतुर्थीति भावः । न त्वां तृणं मन्वे इति । मनुधातोरुविकरणस्य लडुत्तमपुरुषेकवचनम् । ननु ‘न त्वान्नाव मन्नं मन्ये' इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्याप्तिः । न त्वां शुने मन्ये इत्यादौ तु प्राणि त्वात् चतुर्थीविकल्पो न स्यादित्यव्याप्तिः । कर्मणः प्राणित्वादित्यत आह । अप्राणिष्वित्य पनीयेति ॥ न त्वान्नावमन्ये इति । जीर्णान्नावं प्रति वाक्यमेतत् । न त्वामन्नम्मन्ये इत्यप्युदाहार्यम् । कुत्सितमन्नं प्रति वाक्यमेतत् । उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः किन्तु द्वितीयैवेति भावः । न त्वां शुने मन्ये इति ॥ हे देवदत्त त्वां श्वत्वेनापि न मन्ये इत्यर्थः । न त्वां काकम्मन्ये, न त्वां शुकम्मन्ये, न त्वां सृगालम्मन्ये, इत्यप्युदाहार्यम् । एषु प्राणित्वेऽपि न चतुर्थीविकल्प इतेि भावः । गत्यर्थ ॥ शारीरपरिस्पन्दश्चेष्टा । मनसेति ॥ अत्र शारीरचेष्टायाः अभावान्न द्वितीयाचतुर्थ्यै, किन्तु द्वितीयैवेति भावः । “ आस्थितप्रतिषेधो ऽयं वक्तव्यः' इति वार्तिकमर्थतस्संगृह्णाति । गन्त्राऽऽधिष्ठिते इति ॥ गन्त्राक्रान्ते अध्व न्येव अनध्वनीत्ययन्निषेध इत्यर्थः । यथा पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्तयाश्रयत्वेन गन्त्राधिष्ठितत्वान्निषेधः । अस्य वार्तिकस्य प्रयेोजनमाह । यदा त्विति ॥ उत्पथादिति । अमार्गादित्यर्थः । ल्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितः मोहात्तन्मा र्गात् प्रच्युतः मार्गान्तरं प्रविष्टः, तं परित्यज्य पुनरुज्जयिनीमार्गः आक्रमितुमिष्यते, तदा अनध्वनीति निषेधाभावाच्चतुर्थ्यपि भवत्येवेत्यर्थः । तादृशं लक्ष्यन्दर्शयति । उत्पथेन पथे गच्छतीति ॥ उत्पथनत्यनन्तरं गन्तुमशक्त इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्त उत्पथं परित्यज्य उज्जयिनीमार्ग प्रवेष्टुं तदीयम्मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाभावात् अनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः ॥

इति चतुर्थी विभक्ति ।