पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४३५
बालमनोरमा ।

अथ पञ्चमी विभक्तिः

५८६ । ध्रुवमपायेऽपादानम् । (१-४-२४)

अपायो विश्लेषः, तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ।

५८७ अपादाने पञ्चमी । (२-३-२८)

ग्रामादायाति । धावतोऽश्वात्पतति । ' कारकम्' किम् । वृक्षस्य पर्ण पतति । 'जुगुप्साविरामप्रमादार्थानामुपसङ्ख-यानम्’ (वा १०७९) । पापा ज्जुगुप्सते, विरमति । धर्मात्प्रमाद्यति ।

५८८ । भीत्रार्थानां भयहेतुः । (१-४-२५)

भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुरपादानं स्यात् । चोराद्विभेति । चोरात्तायते । “ भयहेतुः' किम् । अरण्ये बिभेति, त्रायते वा ।

५८९ । पराजेरसोढः । (१-४-२६)

{{Rule}] अथ पञ्चमी विभक्तिः-ध्रुवमपाये ॥ अपायपदं व्याचष्टे । अपायो विश्लेष इति ॥ वियोग इत्यर्थः । ध्रुवपदं व्याचष्टे । अवधिभूतमिति । द्वयोस्संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचवलनानाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षित मिति भावः । अपादाने पञ्चमी ॥ स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति ॥ आ गच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वात् ग्रामोऽवधिरिति अपादानत्वात् पञ्चमी । माधुराः पाटलीपुत्रेभ्यः आढ्यतराः' इत्यादौ बुद्धिकल्पितविश्लेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनानाश्रयभूतं यत् तदेव ध्रुवमिति व्याख्यायताम् । किमवधित्व विवक्षयेत्यत आह । धावतोऽश्वात् पततीति ॥ अश्वस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः । जुगुप्सेति ॥ जुगुत्सा द्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः । पापाज्जुगुप्सते इति ॥ पापविषये कुत्सितत्वबुध्द्या न रमते इत्यर्थः । विरमतीति ॥ पापादित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात् प्रमाद्यतीति ॥ धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावात् वचनमिदम् । यदा तु जुगुप्सते इत्यादेर्निवर्तत इत्यर्थः आश्रीयते, तदा बुद्धिकृतविश्लेषाव धित्वमादाय अपादानत्वादेव सिद्धमिति वार्तिकमिदं भाष्ये प्रत्याख्यातम् । भीत्रा ॥ चोरा द्विभेतीति ॥ चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्त्रायते इति ॥ चेोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोरात् बिभेति भीत्या निवर्तते चोरात्त्रायते आत्मानं त्रातुं निवर्तयतीत्यर्थः आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादाया पादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् । पराजेरसोढः ॥ सहधातोः क्तप्रत्यये