र्बलीयसी' (प १०३) । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः-समर्थः-शक्त इत्यादि । प्रभ्वादियोगे षष्ठन्यपि साधुः । 'तस्मै प्रभवति --' (सू १७६५) ' स एषां ग्रामणी:' (सू १८७८) इति निर्देशात् । तेन * प्रभु र्बुभूषुर्भुवनत्रयस्य' इति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि *चतुर्थी चाशिषि—' (सू ६३१) इति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात्
५८४ । मन्यकर्मण्यनाद्रे विभाषाऽप्राणिषु । (२-३-१७)
प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वे ।
झटित्येवावगम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति ॥ करशिरस्संयोगादिना तोषयतीत्यर्थः । करशिरस्संयोगादिमात्रार्थत्वे अकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति ॥ प्रजासम्बन्धि कुशलमित्यर्थः । अग्नये स्वाहेति ॥ अग्नयुद्देश्यकं द्रव्यदानमित्यर्थः । पितृ भ्यः स्वधेति । पित्रुद्देश्यकं द्रव्यदानमित्यर्थः । “स्वं रूपं शब्दस्य’ इति अलंशब्दस्यैव ग्रहणे कुमारीणामलङ्कारः इत्यत्रातिव्याप्तिः । किञ्च दैत्येभ्यो हरिरलमित्यत्रैव स्यात्, दैत्येभ्यो हरिः प्रभुरित्यादौ न स्यादित्यत आह । अलमितीति ॥ वार्तिकमेतत् । अलमित्यनेन पर्या प्तयर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति ॥ पर्याप्तयर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना कुमारीणामलङ्कार इत्यत्रातिव्याप्तिनिराससङ्गहः । ननु 'प्रभुर्बुभूषुर्भुवनत्रयस्य' इत्यादौ कथं षष्ठीत्यत आह । प्रभ्वादियोगे षष्ठयपि साधुरिति । कुत इत्यत आह । स एषां ग्रामणीरिति निर्देशादिति ॥ नन्वेवं सति दैत्येभ्यः प्रभुरिति चतुर्थी न स्यात् । अलं शब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह । तस्मै प्रभवतीति ॥ वषडिन्द्रायेति ॥ इन्द्रोद्देश्यकं हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयात् इत्याशीर्वाक्ये चतुर्थेवेष्यते । तत्र ‘चतुर्थीचाशिष्यायुष्य ' इत्यादिना परत्वात् पक्षे षष्ठीप्रसङ्ग इत्यत आह । चकारः पुनर्विधा नार्थः इति ॥ तेनेति ॥ पुनर्विधानसामर्थ्येनेत्यर्थः । मन्यकर्मणि ॥ अप्राणिष्विति च्छेदः । मन ज्ञाने' दिवादिः श्यन्विकरणः, “मनु अवबोधने' तनादिरुविकरणः । तत्र मन्येति श्यना निर्देशातू दैवादिकस्य ग्रहणमित्याह । मन्यतेरिति ॥ कर्मणीति । अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम् । तिरस्कारे इति । अनादर इत्यस्य व्याख्यानमेतत् । “अनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । न त्वां तृणमिति ॥ हे देवदत्त त्वां तृणत्वेनापि न मन्ये इत्यर्थः । नञुपादानादयमर्थो लभ्यते । तृणादप्यधमत्वप्रतीतेतिरस्कारातिशयः फलितः । तृणं त्वां मन्ये तृणाय वेत्युक्तौ तु तृणसाम्यमेव प्रतीयेत । न तु ततोऽप्यपकृष्टत्वम् । एतदेवाभिप्रेत्य भाष्येऽपि नञुपात्तः । न च मन्यकर्मत्वाविशेषात् त्वामिति युष्मच्छब्दादपि चतुर्थी