५८२ । तुमर्थाच्च भाववचनात । (२-३-१५)
'भाववचनाश्च' (सू ३१८०) इति सूत्रेण यो विहितस्तदन्ताचतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ।
५८३ । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२-३-१६)
एभिर्योगे चतुर्थी स्यात् । हरये नमः । ' उपपदविभक्तेः कारकविभक्ति
नृसिंहमनुकूलयितुमिति ॥ नचात्र 'नमःस्वस्ति' इत्येव चतुर्थी सिद्धेति वाच्यम् । उपपदविभक्त्तेः' कारकविभक्तिर्बलीयसी' इति द्वितीयापत्तेः। एतत्सूचनार्थमेवेदमुदाहरणा न्तरं दर्शितम् । तुमर्थाच्च ॥ 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति सूत्रम् । क्रियार्थायां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः । भोक्तुं व्रजति, भोजको व्रजति भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम्, अस्य तुमुनः अर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः, क्रिया उच्यते अनेनेति वचनः, भावस्य वचनः भाचवचनः, तस्मादिति विग्रहः। क्रियावाचिन इति यावत् । प्रत्ययादिति शेषः । तत्र 'अव्ययकृतो भावे' इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेष परिग्रहणार्थमित्याह । भाववचनाश्चेति । भावे इत्यधिकृत्य ये घञादिप्रत्यया विहिताः ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः । यागाय यातीत्याद्युदाहरणम् । एवञ्च क्रियार्थत्वलाभार्थे तुमर्थादिति विशेषणम् । अत्र तादर्थ्यस्य तुमुनेव, घञा द्योतितत्वात् उक्तार्थनामप्रयोगः' इति न्यायेन तादर्थ्यचतुर्थ्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम् । तुमर्थादिति किम् । पाकः त्यागः इत्यादौ “घञो भावे' इत्यधिकारस्थत्वेऽपि न चतुर्थी । क्रियार्थक्रियोपपदत्वाभावेन तुमर्थकत्वाभावात् । भाववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेऽपि “भावे' इत्यधिकारे विध्द्य भावान्न चतुर्थी । तादर्थ्यस्य ण्वुलैवोक्तत्वान्न तादर्थ्यचतुर्थी, किन्तु प्रथमैव । नमःस्वस्ति । युज्यत इति योगः, कर्मणि घञ् । नमस् इत्यादिभिर्युक्तादित्यर्थः । फलितमाह । एभिर्योगे इति । न च तादर्थ्यचतुर्थ्या गतार्थत्वं शङ्कयम् । तादर्थ्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थ त्वात् । तादर्थ्य हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानन्तदा षष्ठी । यथा गुरोरिदं गुर्वर्थम्’ इति भाष्ये स्पष्टम् । एवञ्च नमःस्वस्त्यादियोगे तादर्थ्यस्य शेषत्वविवक्षा यामपि चतुर्थ्येवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह । उपपदविभक्तेरिति । पदान्तरयोगनिमित्तिका विभक्तिः उपपदविभक्तिः, तदपेक्षया कारक विभक्तिर्बलीयसीत्यर्थः । “ अन्तरान्तरेण' इति सूत्रे भाष्ये पठितमिदं वचनम्, तच्च न्यायसिद्धम् । क्रियाकारकयोर्हि सम्बन्धः अन्तरङ्गः । उपपदार्थेन तु यत्किश्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तु उपपदविभक्तया सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्तया तु कर्मत्वादिसम्बन्धविशेषः