पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४३१
बालमनोरमा ।


(वा १४५९) । भक्तिर्ज्ञानाय कल्पते-सम्पद्यते-जायते इत्यादि । “उत्पातेन ज्ञापिते च' (वा १४६०) । वाताय कपिला विद्युत् । 'हितयोगे च' (वा १४६१) । ब्राह्मणाय हितम् ।

५८१ । क्रियार्थोपपदस्य कर्मणि स्थानिनः । (२-३-१४)

क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तु यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं ‘स्वयम्भुवे नमस्कृत्य' इत्यादावपि ।


दारु, कुण्डलाय हिरण्यम्, इत्युदाहृतत्वादित्यभिप्रेत्योदाहरति । मुक्तये इति ॥ मुक्तयर्थ मित्यर्थः । उपकार्यत्वञ्च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति मुक्तिर्जन्येति गम्यते, प्राप्यत्वं वा । ब्राह्मणाय दधीति ब्राह्मणस्योपकार्यत्वं गम्यते । इत्यादि । नचैवमपि अनेनैव सिद्धे 'चतुर्थी सम्प्रदाने' इति सूत्रे सम्प्रदानसंज्ञाविधानञ्च व्यर्थमिति वाच्यम् । हरये रोचते भक्तिः' इत्यादौ “रुच्यर्थानां प्रीयमाणः' इत्याद्यर्थे तदावश्यकत्वात्, इति भाष्ये स्पष्टम् । क्लृपि सम्पद्यमाने चेति । क्लृपीति सप्तमी, सम्पत्तिः विकारात्मना उत्पत्तिः परिणाम इति यावत् । क्लृपिधातौ प्रयुज्यमाने सति सम्पद्यमानेऽर्थे वर्तमानात् चतुर्थी वाच्येत्यर्थः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः । क्लृपीत्यर्थग्रहणमित्यभिप्रत्यो दाहरति । सम्पद्यते, जायते इत्यादीति ॥ आदिना परिणमते इत्यादिसङ्गहः । परिणामत्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादर्थ्यचतुर्थ्यैव सिद्धमित्याहुः । उत्पातेन ज्ञापिते चेति । अशुभसूचकः आकस्मिकः भूताविकारः उत्पातः, तेन सूचितेऽर्थे विद्यमानात् चतुर्थी वाच्येत्यर्थः। वातायेति महावातस्य सूचिकेत्यर्थः। हितयोगे चेति ॥ चतुर्थी वाच्येति शेषः । ब्राह्मणाय हितमिति । ब्राह्मणस्य सुखकृदित्यर्थः । याजना दिरिति शेषः । क्रियार्थ । क्रिया अर्थः प्रयोजनं यस्यास्सा क्रियार्था । क्रियेति विशेष्यमध्द्या हार्यम्, क्रियाफलकक्रियावाचकमिति यावत् । क्रियार्था क्रिया उपपदं यस्येति विग्रहः । तुमुनो विशेषणमेतत् । उपोच्चारितं पदम् उपपदम् । स्थानिन इत्यपि तद्विशेषणम् । स्थानं प्रसक्तिः रस्यास्तीति स्थानी, तस्येति विग्रहः । अप्रयुज्यमानस्येति यावत् । तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम् । “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते । तदाह । क्रियार्था क्रियेति । स्थानि इत्यस्य व्याख्यानम् । अप्रयुज्यमानस्येति ॥ फलेभ्यो यातीत्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह । फलान्याहर्तुमिति ॥ इह फलाहरणक्रियार्था यानक्रिया, तद्वाचके उपपदे आहर्तुमित्यध्धाहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वात् सम्प्रदानत्वम् । द्वितीया पवादः । नच तादर्थ्यचतुर्थ्या गतार्थता शङ्कया । नहि यानक्रिया फलार्था, किन्तु फलकर्मका हरणक्रियार्थैव, अतो न फलेभ्यस्तादर्थ्यचतुर्थीप्रसक्तिः । एवञ्च फलकर्मकाहरणक्रियार्था यान क्रियेति बोधः । उदाहरणान्तरमाह । नमस्कुर्म इति ॥ तुमुन्नन्तार्थाध्याहारन्दर्शयति ।