दानं स्यात् । विप्राय गां प्रतिश्रृणोति-आश्रृणोति वा । विप्रेण मह्य देहीति प्रवर्तितस्तत्प्रतिजानीते इत्यर्थः ।
५७९ । अनुप्रतिगृणश्च । (१-४-४१)
आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रे ऽनुगृणाति-प्रतिगृणाति वा । होता प्रथमं शंसति, तमध्वर्युः प्रोत्साहयतीत्यर्थः।
५८० । परिक्रयणे सम्प्रदानमन्यतरस्याम् । (१-४-४४)
नियतकालं भृत्या स्वीकरणं परिक्रयणम्, तस्मिन्साधकतमं कारकं सम्प्रदानसंज्ञं वा स्यात् । शतेन-शताय वा परिक्रीत । “ तादर्थ्ये चतुर्थी वाच्या' (वा १४५८) । मुक्तये हरिं भजति । 'क्लृपि सम्पद्यमाने च'
प्रवर्तनारूपस्येति ॥ प्रेरणारूपस्येत्यर्थः । प्रत्याङ्भ्यामित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः । किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथा “ अभिनिविशश्च' इतिवत् *प्रत्याड़ श्रुवः' इत्येव बूयादित्यभिप्रेत्य उदाहरति । विप्राय गां प्रतिश्रृणोति आश्रृणोति वेति ॥ अत्र प्रतिपूर्वकः आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्युपगमे वर्तते, ततश्च प्रवर्तित प्रतिजानीते इति लभ्यते । केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्तृत्वेनान्वेति । तत्र विप्रस्य प्रेरणाकर्तृत्वात् सम्प्रदानत्वं कर्तृतृतीयापवाद इत्यभिप्रेत्य आह । विप्रेणेति ॥ मह्य गवादि द्रव्यं देहीति विप्रेण पृष्टस्सन् देवदत्तः तुभ्यं ददामीत्यभ्युपगच्छतीति योजना । अनुप्रति गृणश्च ॥ पूर्वस्य कर्तेत्यनुवर्तते । 'गृ शब्दे' इत्यस्य श्रान्तस्य अनुकरणशब्दात् गृण इति षष्ठी । अत्र गृधातुः शंसितृकर्मके शंसनविषयकप्रोत्साहने वर्तते । तत्र पूर्वव्यापारस्य शंस नस्य कर्ता सम्प्रदानमित्यर्थः । तदाह । आभ्यामिति । पूर्वसूत्रे प्रत्याङ्भ्यामिति द्विवचन निर्देशबलात् प्रत्येकमेव धातुसम्बन्धावधारणात् तत्साहचर्यात् इहापि प्रत्येकमेव धातुसम्बन्ध इत्यभिप्रेत्य उदाहरति । होत्रे अनुगृणाति प्रतिगृणाति वेति । होता प्रथममिति । शंसितारं होतारं उत्तरोत्तरशंसनविषये प्रोत्साहयतीति यावत् । “ ओऽथ मोदै व ” इति प्रति गरमन्त्रः । ओ इति सम्बोधने, मोदै इति लोडुत्तमपुरुषैकवचनम् । व इत्येवकारार्थे, हे होतः अथ त्वदीयशंसनानन्तरं तुष्याम्येवेति तदर्थः । प्रोत्साहने होतुः कर्मत्वं प्राप्तम्, पूर्वव्यापारं शंसनं प्रति कर्तृत्वाद्धोतुस्सम्प्रदानत्वम् । परिक्रयणे । नियतकालमिति । तुभ्यमे तावद्वेतनं दीयते, तत् गृह्मन् एतावन्तं कालं त्वं मम कर्मकरो भव इत्येवं परिमितकालं भृत्या स्वीकरणं परिकयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह । तस्मिन् साधकतम मिति । सम्प्रदानत्वाभावे करणसंज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्रव्यशतेनेत्यर्थः । तादर्थ्ये चतुर्थी वाच्येति । “चतुर्थी सम्प्रदाने' इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अर्थेन नित्यसमासः । तदर्थस्य भावः तादर्थ्यम् । ब्राह्मणादित्वात् घ्यञ् । तेन च उपकार्योपकारकभावसम्बन्धो विवक्षितः । तत्र उपकार्यादेव चतुर्थी । भाष्ये यूपाय