पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२७८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

त्यादेशः । एवम् 'इम मे गङ्गे यमुने' इति मन्त्रे यमुन इत्यादिभ्यः प्राची नानामामन्त्रितानामविद्यमानवद्भावेऽपि मेशव्दमेवाश्रित्य सर्वेषा निघात ।

४१३ । नामन्त्रिते समानाधिकरणे सामान्यवचनम् । (८-१-७३)

विशेष्य समानाधिकरणे विशेषणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो न पाहि । अग्रे तेजस्विन् । “विभाषितं विशेषवचने' (सू ३६५५)। अत्र भाष्यम् * बहुवचनमिति वक्ष्यामि' इति। बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परे अविद्यमानवद्वा । यूयं प्रभव देवा शरण्या, युष्मान्भजे, वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशा. । सुपात्-सुपाद् । सुपादौ । सुपाद्. । सुपादम् । सुपादौ ।


न्त्रितस्य व' इत्यनुदात्तत्वमित्यर्थ । सर्वशब्द विशिनष्टि । यमुन इत्यादिभ्यः प्राचीनाना मिति ॥ इति आदिर्येषामिति विग्रह । आदिना सरस्वतीशुतुद्रीत्यनयोर्ग्रहणम् । तद्गुणसविज्ञानो बहुव्रीहि । यमुने, सरस्वति, शुतुद्रि, इत्येतेभ्य एकैकस्मात्प्राचीनाना गङ्गे, यमुने, सरस्वति इत्येषा सर्वेषान्निघात इत्यर्थ । शुतुद्रिशब्दस्य तु अनुदात्तत्वन्नेत्यविवादम् । तस्य द्वितीयपादादि स्थत्वात् । “ आमन्त्रितस्य च' इत्यत्र “पदस्य, पदात्, अनुदात्त सर्वमपादादौ' इत्यनुवृत्ते । “इमम्मे” इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्ते प्रथमपादस्य द्वादशाक्षरस्य समाप्ते । ननु गङ्गे इत्यस्यानुदात्तत्वमुचितम्, तस्य मे इति पदात् परत्वात् । यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसम्भव । तत प्राचीनयो गङ्गे, यमुने, इत्यनयोरविद्यमानवत्त्वेन पदात् परत्वाभावादित्यत आह । आमन्त्रितानामविद्यमानवद्भावेऽपि मेशब्दमेवा श्रित्येति ॥ आमन्त्रिताना मध्ये गङ्गे, यमुने, इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवञ्च इत्यादिभ्य इति सर्वेषाभिति च बहुवचनमनुपपन्नमित्यपास्तम् । क्वचित् पुस्तकेषु यमुन इत्यादिप्राचीनामन्त्रिताविद्यमानवद्भावेऽपीति पाठो दृश्यते । तत्र आदिना सरस्वतीत्ये तदुच्यते । यमुने, सरस्वतीत्याम्या प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव । अयञ्च निघात पदकाले स्पष्ट श्रूयते । नामन्त्रिते ॥ आमन्त्रितम् अविद्यमानवदित्यनु वर्तते । सामान्यवचनामित्यनेन विशेष्यसमर्पकश्शब्दो विवक्षित । विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात् । तेन च विशेषणमाक्षिप्यते । समानाधिकरणे इति तत्रान्वेति । समानम् अधिकरण यस्येति विग्रह । समानशब्द एकत्वपर । विशेष्यबोधकशब्दन अभेदससर्गेण एकार्थवृत्तित्व विवक्षितमित्याशयेनाह । विशेष्यमित्यादिना ॥ हरे दयाळोइति ॥ अत्र दयाळो इति समानाधिकरणविशेषणे परे हरिशब्दो नाविद्यमानवत् । ततश्च दयाळो इत्यस्याविद्यमानवत्वेऽपि हरेइतिपदान् परत्वान्नसादेश इति भाव । अग्ने तेजस्विन्नि ति ॥ इह तेजस्विान्निति विशेषणे परे अग्ने इत्यस्य अविद्यमानवत्वाभावात् पदात् परत्वा