सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दकारान्तप्रकरणम्]
२७७
बालमनोरमा ।

४११ । सामन्त्रितम् । (२-३-४८)

सम्बोधने या प्रथमा तदन्तमामन्त्रितसंज्ञ स्यात् ।

४१२ । आमन्वितं पूर्वमविद्यमानवत् । (८-१-७२)

स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अग्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तानिघात आामन्त्रितनिघातश्च न । * सर्वदा रक्ष देव न ' इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि तत प्राचीनं रक्षेत्येतदाश्रि -

भक्तस्त्वमिति ॥ देवदत्तेत्यद्याहार्यम् । हे देवदत्त त्वमहमपि भक्त इत्यन्वय । तेनेति ॥

भक्तत्वेनेत्यर्थ । त्रायते इति ॥ पालयतात्यर्थ । अत्र पूर्ववाक्योपात्तयुष्मदम्मदर्थयोरिह पुनरुपादानादन्वादेशोऽयम् । अत्र तेनेत्येतन् पूर्व विद्यमान पद, तत पर हरिरिति प्रथमान्त तत परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्प । तथा त्रायत इत्येतत् पूर्व विद्यमान पदम्, तत पर स इति प्रथमान्तम्, तत परस्यास्मच्छब्दस्यान्वादेशेऽपि मादशविकल्प त्रायत इत्यतत् म यमाणन्यायेन उभयत्र सम्वन्यते । तेन निमित्तनिमितिनो समानवाक्य स्थत्व स इत्यस्य विद्यमानपूर्वत्व च बोध्यम् । सामन्त्रितम् ॥ प्रातिपदिकार्थसूत्रोपात्ता प्रथमा सा इत्यनेन परामृश्यते । 'सम्बोधने च' इत्यतस्सम्बोधने इत्यनुवर्तते । तदाह । सम्बोधने इत्यादिना ॥ तदन्तामिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासज्ञाकरणात् सज्ञाविधावपि तदन्तग्रहणम्, अत एव हेहैभो इत्यादीनामपि सज्ञा सिद्धा । आमन्त्रित पूर्वमविद्यमानवत् ॥ स्पष्टमिति ॥ अनुवर्तनायपदान्तराभावादिति भाव । अग्रे तवेति ॥ “ अन्न तव श्रवो वय ” इत्यचि अनेन इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्द अविद्यमानवत् । “ अग्ने नय” इत्यचि अग्ने इत्यविद्यमानवत् । “अग्न इन्द्र वरुण ” इत्यूचि अग्ने इत्यविद्यमानवदिति भाव । तत किमित्यत आह । इहेति ॥ अग्रे तवेत्यत्र देवास्मा नित्यत्र च युष्मदस्मदो तेनसावादेशौ न भवत । तव अस्मानित्यनयो पदात् परत्वा भावात् पादादौ स्थितत्वाच्च । ‘अग्ने नय’ इत्यत्र नयेति तिङन्तस्य 'तिङ्डतिड ' इत्यनुदात्तत्व न भवति । अतिडन्तात् पदात् पर तिडन्त निहन्यते, इति हि तदर्थ । इह च अग्ने इत्यति डन्तस्य अविद्यमानवत्वादतिङन्तात् परत्वाभावात् नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तु 'आमन्त्रितस्य च' इति सर्वानुदात्तत्वन्न भवति । पदान् परमामन्त्रितन्निहन्यते इति हि तदर्थं । इह च अन्नेशब्दस्याविद्यमानवत्वेन पदात् परत्वाभावात् इन्द्रशब्दस्य नानुदा त्तत्वम् । एव वरुणशब्दस्यापि नानुदात्तत्त्वम् । तत प्राचीनयो अग्ने इन्द्र इत्यनयोर विद्यमानवत्वात् । ननु सर्वदा रक्ष देव न, इत्यत्र कथन्नसादेश । देवेत्यस्याविद्यमानवत्त्वा दित्यत आह । सर्वदेति । “लक्ष्मीपते तेऽड़्घ्रियुग स्मरामि । प्रतापरुद्र ते ख्याति ” इत्यादौ तु ते इति विभक्तिप्रतिरूपकमव्ययम् । तत्र आमन्त्रितस्याविद्यमानवत्वात् युष्मद्शब्दस्य पादादिस्थत्वात् । एवमिति । इमम्मे गङ्गे यमुने इति मन्त्रे सर्वेषान्निघात इत्यन्वय । “ आम