पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


थकारान्तप्रकरणम्]
२७९
बालमनोरमा ।

४१४ । पादः पत । (६-४-१३०)

पाच्छब्दान्तं यदङ्गं भं तद्वयवस्य पाच्छब्दम्य पदादेशः स्यात् । सुपदः । सुपदा । सुपाद्भयामित्यादि ।

इति दान्ता ।

॥ अथ हलन्तपुल्लिंङ्गे थकारान्तप्रकरणम् ॥

-------------******----------

अग्निं मन्थतीत्यग्निमत्-अग्निमद् । अग्रिमथौ । अग्निमथ । अग्नि मद्भ्यामित्यादि ।

इति थान्ता ।


तेजस्विन्नित्यस्य निघात इति भाव । सु शोभनौ पादौ यस्येति बहुव्रीहौ 'सङ्कया सुपूर्वस्य इति पादशब्दान्त्यलोपे सुपाद्शब्द । तस्य सुटि रूपाण्याह । सुपादित्यादिना ॥ शसि विशेषमाह । पादः पत् ॥ भस्य अङ्गस्येति चाधिकृत पाद इत्यनेन विशेष्यते । तदन्तविधि । तदाह । पाच्छब्दान्तमिति ॥ पाच्छब्दस्येति ॥ पाच्छब्दान्तस्य विधीयमानोऽपि पदादेश 'निर्दिश्यमानस्यादेशा भवन्ति' इति पाद्मशब्दस्यैव सर्वादेशो भवति, नतु तदन्तस्येति भाव । इत्यादीति ॥ सुपदे । सुपद । सुपद । सुपदो । सुपदि ॥ इति दान्ता । अथ थकारान्ता निरूप्यन्ते । अग्निदिति ॥ 'मन्थ हिंसासक्लेशनयो ' इति भ्वादौ । 'मन्थ विलोडने' इति क्रयादौ । उभाभ्यामपि क्विपि “अनिदिताम्' इति नलोपे अग्निमथ् इति रूपम् । ततस्सुबुत्पत्ति । सौ जश्त्ववत्वें इति भावः । भ्यामादौ 'जश्त्वेन थस्य द । अग्निमद्भ्यामित्यादि । सुपि ‘खरि च' इति चर्त्वम्, अग्निमत्सु । 'मथे विलोडने' इत्यस्याप्येतदेव रूपम् । ‘मथि हिंसासक्लेशनयो.' इति इदितस्तु नलोपाभावात् अग्निमन् अग्निमन्थावित्यादि ॥ इति थान्ता ।