पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२६६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३८९ ॥ त्वमावेकवचने । (७-२-९७)

ग्कस्योक्तौ युस्मदस्मदोर्मपर्यन्तस्य त्वमेौ स्तो विभक्तौ ।

३९० । द्वितीयायाञ्च । (७-२-८७)

युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ।

३९१ । शसो न । (७-१-२९)

नेत्यविभक्तिकं पदम् । युष्मदस्मद्भया परस्य शसो नकार स्यात् । अमो ऽपवाद् । * आदे परस्य’ (सू ४४)। * संयोगान्तम्य लोप'(सू ५४) युष्मान् ।


भाष्ये अदर्शनादुपेक्ष्य । सन्निपातपरिभाषयैवात्र शीभावो न भवति । दकारस्य शेषलोपेो हि आत्वयत्वतरनिमित्तात्मकशेषविभक्तयात्मकस्य अम युष्मदस्मदोश्च सन्निपातमाश्रित्य प्रवृत्त । ततश्शीभावे तु आद्गुणे यूये वये इति स्यात । तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसन्निपातभङ्ग । परादित्वे तु युष्मदस्मत्सन्निपातविरोध इत्यलम् । अथ द्वितीयैकवच नस्य अम 'डे प्रथमयो ' इत्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते । त्वमावेक वचने ॥ ‘युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । ‘मपर्यन्तस्य’ इत्यधिकृतम्। एकवचनशब्दो यौगिक एव । वचनग्रहणसामर्थ्यात् । तदाह । एकस्येत्यादिना ॥ त्व अद् अम्, म अद् अम् इति स्थिते । द्वितीयायाञ्च ॥ शेषपूरणेन सूत्र व्याचष्टे । युष्मदस्म दोरिति ॥ 'युष्मदस्मदोरनादेशे' इत्यत तदनुवृत्तेरिति भाव । आकार. इति ॥ ‘अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भाव । तथाच द्वितीयाविभक्तौ परत युष्मदस्मदोराकार स्यादिति फलति । “ अलोऽन्त्यस्य’ इति दकारस्य भवति । त्व अ आ अम्, म अ आ अम् इति स्थिते पररूपे सवर्णदीर्घे अमि पूर्वरूपे च परिनिष्ठित रूपमाह । त्वाम् । मामिति ॥ युवाम्। आवामिति ॥ पूर्ववत् ‘द्वितीयायाञ्च' इत्यात्वमिति विशेष । 'प्रथमायाश्च' इत्यस्य अत्राप्रवृत्त । अथ शसि विशेषमाह । शसो न ॥ “डे प्रथमयो ' इत्यत आमित्यनुवर्तते । युष्मदस्मद्भद्यामिति च । युष्मदस्मद्भद्या परस्य शसो अम् न स्यादिति लम्यते । तथाच अमभावे * द्वितीयायाञ्च' इत्यात्वे पूर्वसवर्णदीर्घे 'तस्माच्छसो न पुसेि' इति नत्वे युष्मानिति यद्यपि पुप्ति रूप सिध्द्यति । तथापि युष्मान् ब्राह्मणी पश्य, अस्मान् ब्राह्मणी पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य, इति स्त्रीनपुसकयोर्न सिध्ध्येत् । अतो नेद सूत्र शस अम्निषेधपरम् । किन्तु शसेो नकारोऽत्र विधीयते इत्यभिप्रेत्य तर्हि शसो न इति प्रथमा न श्रूयते इत्याशङ्कय आह । नेत्यविभक्तिकं पदमिति ॥ लुप्तप्रथमाविभक्ति कमित्यर्थ । ततश्च फलितमाह । युष्मदस्मद्भ्यामित्यादिना ॥ अमोऽपवादः इति ॥ डे प्रथमयेो ' इति प्राप्ते एव नत्वविधस्तदपवादता । युष्मद् अस्, अस्मद् अस् इति स्थिते * द्वितीयायाश्च' इत्यात्वे अनेन शसो नकार । स च * अलोऽन्त्यस्य' इति नान्यस्ये