सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दकारान्तप्रकरणम्]
२६५
बालमनोरमा ।

दकारान्तप्रकरणम्] बालमनोरमा

३८८ यूयवयौ जसि । (७-२-९३)

स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । आतयूयम् अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जस शी प्राप्त । * अङ्गकायें कृते पुनर्नाङ्गकार्यम्' (प ९३) इति न भवति । “डे प्रथमयो –'(सू २) इत्यत्व मकारान्तर प्रश्लिष्य * अम् मान्त एवावशिष्यते, न तु विक्रियते' इति व्याख्यानाद्वा।


ननु 'योऽचि' इति सूत्रस्थाने * अच्ये' इति सूत्रमस्तु । अजादिविभक्तौ युष्मदस्मदोरन्यस्य एकार स्यादिति तदर्थ । तथाच त्वमयोस्समस्तादेशत्वेऽपि तदन्त्यस्य अकारस्य एत्वे अयादेशे च कृते त्वया मयेति सिध्द्यतीत्यस्वरसादाह । युवकाभ्याम् , आवकाभ्याम् इति च न सिध्द्येदिति ॥ अमति मपर्यन्तवचने इति शेष । “ओकारसकार” इत्यादिवचनेन भ्यामि टे प्रागकचि तन्मध्द्यपतितन्यायेन साकच्कयो स्थाने युवावादेशयेो युवाभ्यामावा-यामित्येव स्यात् । ककारो न श्रृंयेत । युष्मक् द् अस्मकद् इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तु * युष्मदस्म दोरनादेशे' इत्यात्वे युवकाम्याम् आवकाम्यामिति निर्बाधमित्यर्थ । “डे प्रथमयो ' इति जस आमि कृते विशेषमाह '। यूयवयौ जसि । स्पष्टमिति ॥ युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ स्तो जसि परत इति सुगममित्यर्थ । यूय अद् अम्, वय अद् अम् इति स्थिते पररूपे 'शेषे लोप ' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठित रूपमाह । यूयम् । वयमिति ॥ परमयूयमिति ॥ यूयवयविधेराङ्गत्वात्तदन्तविधिरिति भाव । अतियूय मिति । गौणत्वेऽपि तदप्रवृत्तौ मानाभावादिति भाव । अत्र शीभावमाशङ्कय परिहरति । इहेति ॥ इह *शेषे लोप ' इत्यन्त्यलोप इति पक्षे दकारस्य लोपे सति अवर्णान्तात् सर्व नाम्न परत्वात् जस शीभाव प्राप्तो न भवतीत्यन्वय । कुत इत्यत आह । अङ्गवकार्ये इति॥ अङ्गाधिकारविहिते कार्ये कृते सति पुन अङ्गाधिकारविहित कार्य न भवतीत्यर्थः । तेन त्वमित्यत्र पररूपे कृते ‘अमि पूर्व ’ इत्यस्य नानुपपति । ‘ज्यादादीयस' इति सूत्रे 'ज्ञाजनोर्जा’ इति सूत्रे च “अङ्गवृते पुनर्तृत्तावविधि ' इति परिभाषा स्थिता सा चात्र अर्थत उपनिबद्धा नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृते “सुपि च' इति दीर्घो न स्यादिति वाच्यम् । द्वयोरेकस्ये त्यादिनिर्देशेन तदनित्यत्वज्ञापनात् । प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वादाङ्गश्शीभावो न भवतीति भाव । ननु ‘अङ्गकार्ये' इति परिभाषा नात्र प्रवर्तते । शीभावस्य अङ्गाधिकारविहि तत्वेऽपि अङ्गाधिकरणकत्वाभावात् । “ अङ्गवृत्ते पुनर्वृत्तावविधि ' इति परिभाषास्वारस्येन तथैव प्रतीते । अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह । ङे प्रथमयोरिति ॥ “ङे प्रथमयो रम्' इत्यत्र अम् म् इति मकारान्तर प्रश्लिष्यते। अम् च म् चति द्वन्द्व । अन्त्यो मकारस्स योगान्तलोपेन लुप्तः । प्रश्लिष्टश्च मकार अमो विशेषणम्, तदन्तविधि. । मकारान्तः अम् स्यादिति लभ्यते । मकारान्तस्य अम. पुनर्मान्तत्वविधानात् अम् मान्त एव भवति । नतु तस्य विकारो भवतीति लभ्यते । अतो न शीभाव इत्यर्थ. । वस्तुतस्तु मकारान्तरप्रश्लेषो