पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दकारान्तप्रकरणम्]
२६७
बालमनोरमा ।

३९२ । योऽचि । (७-२-८९)

अनयोर्यकारादेश स्यादनादेशेडजादौ परत । त्वया । मया ।

३९३।युष्मद्स्मदोरनादेशे। (७-२-८६)

अनयोराकार स्यादनादेशे हलादौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभ । अस्माभि ।

३९४ । तुभ्यमह्यौ ङयि । (७-२-९५)

अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो डयि । अमादेश * शेषे लोपः ' (सू ३८५) । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ।


त्याह । आदे. परस्येति ॥ सयोगान्तस्येति ॥ अकारस्य नकार कृत सकारस्य लोप इति भाव । यद्यपि शस अमि कृतेऽपि अकारस्य नकारे मकारस्य सयोगान्तलोपे युष्मान् अस्मानिति सिद्धद्यति । तथापि * सत्यपि सम्भव बाधन भवति' इति न्यायान्नत्वस्य अमपवाद त्वमाश्रितम् । किञ्च आमि कृते “डे प्रथमयो ? इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य प्रथमस्य सयोगान्तलोपो न स्यादित्यलम् । अथ तृतीया विभक्ति । युष्मद् आ अस्मद् आ इति स्थिते । योऽचि ॥ 'अष्टन आ विभक्तौ' इत्यत आ इति विभक्ताविति चानुवतते । अचीति विभक्तिविशेषणम् । तदादिविधि । “युष्मदस्मदोरनादेशे ’ इत्यनुवर्तते । तदाह । अनयोरिति ॥ युष्मदस्मदोरन्यस्येत्यर्थ । अचि किम् । युवाभ्याम् । अनादेश किम्। त्वत्, मत् । “पञ्चम्या अत्’ इत्यदादेशे सति न यत्वम् । युष्मद् आ, अस्मद् आ इत्यत्र त्वमावेकवचने ? इति मपर्यन्तस्य त्वमादेशयो दकारस्य यत्वे पररूपे च रूपमिति भाव । युष्मदस्मदोरनादेशे ॥ “अष्टन आ विभक्तौ' इत्यत आ इति विभक्ताविति वानुवर्तते । रायेो हलि' इत्यतो हलीत्यनुवृत्त विभक्तिविशेषणम् । तदादिविधि । तदाह । अनयो रिति ॥ युष्मदस्मदोरन्यस्येत्यर्थ । वस्तुतस्तु हलीति नानुवर्तनीयम् । “योऽचि' इत्यजादैौ यत्व विधानेन परिशेषादेव तत्सिद्धे । युवाभ्याम्। आवाभ्यामिति ।॥ युष्मद् भ्याम्, अस्मद् भ्याम् इति स्थिते, युवावादेशयो दकारस्य आत्वे पररूपे सवर्णदीर्घ इति भाव । अत्र हलीत्यनुवृत्तौ ‘यो- ऽचि' इत्यज्ग्रहणम्मास्तु । हलादावात्वस्य विशेषविहितत्वादेव यत्वनिवृत्तिसिद्धेरिति भाष्ये स्पष्टम् । युष्माभि. । अस्माभिरिति ॥ 'युष्मदस्मदोरनादेशे' इत्यात्वे सवर्णदीर्घ इति भाव । अथ चतुर्थी विभक्ति । युष्मद् ए, अस्मद् ए इति स्थिते “त्वमावेकवचने' इति प्राप्त । तुभ्यमह्यौ ङयि ॥ डे इत्यस्य सप्तम्येकवचन डयीति “युष्मदस्मदोरनादेशे' इत्यत युष्मदस्मदोरियनु वर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह । अनयोरिति ॥ युष्मदस्मदोरित्यर्थ । अमादेशः इति ॥ “ङ प्रथमया ' इत्यनेनेति शेष। “शेष लोप ' इति अदा दस्य वा लोप इत्यथ । “ अमि पूर्व' इति मत्वाह । तुभ्यम्। मह्यमिति ॥ परमतुभ्यमिति ॥ तुभ्यमह्यविध्ध्योराङ्गत्वात्तद