पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


दकारान्तप्रकरणम्]
२६१
बालमनारमा ।

त्यदादीनां तकारद्कारयोरनन्त्यो स स्यात्सौ परे । स्य । त्यौ ।त्ये त्यम्, त्यौ, त्यान् स , तौ, ते । परमस, परमतौ, परमते द्विपर्यन्तानामित्येव नेह । त्वम् । न च तकारोच्चारणसामर्थ्यान्नेति वाच्यम् अतित्वमिति गौणे चरितार्थत्वात् । संज्ञाया गौणत्वे चात्वसत्वे न । त्यदौ, त्यद् । अतित्यद्, अतित्यदौ, अतित्यद । य , यौ, ये । एष., एतौ, एत । अन्वादेश तु एनम् , एनौ, एनान् ! एनेन । एनयो।एनयो ।


३८२ । ङे प्रथमयोरम् । (७-१-२८)

युष्मद्स्मद्भया परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेश. स्यात्


भाव । तकारद्वकारयोरिति ॥ सूत्रे तश्च द् चेति विग्रह । तकारादकार उच्चारणार्थ इति भाव। सः स्यादिति ॥ आदेशेऽपि अकार उच्चारणार्थ । त्यौ इति ॥ सावित्युक्तर्न सत्व मिति भाव । त्ये इति ॥ सर्वनामत्वात् जसश्शीभाव इति भाव । मायादीनामप्युपलक्षणम् त्यम्, त्यौ, त्यान्। त्येन, त्याभ्याम्, त्यै । त्यस्मै, त्याभ्याम्, त्येभ्य । त्यस्मात् । त्यस्य, त्ययो, त्येषाम् । त्यस्मिन्, त्येषु । एव तद्शब्द परमसः इति ॥ अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भाव ननु युष्मच्छब्दस्यापि त्यदादित्वात्तस्यापि प्रथमैकवचने त्वमित्यत्र 'तदोस्स स्सौ' इति सत्व कुतो न स्यादित्यत आह। द्विपर्यन्तेति ॥ त्यदादीनाम ' इत्यत्र पठेित

  • द्विपर्यन्तानामेवेष्यते इति वार्तिक 'तदेस्सस्सौ' इत्यत्राप्यनुवर्तत एवेत्यर्थ । तत किमित्यत

आह । नेहेति ॥ इहशब्दविवक्षितमाह त्वमिति युष्मच्छब्दस्य द्विशब्दादुपयेंव सर्वादिगणे पाठादिति भाव ननु 'त्वाहौ सौ' इति तकारोच्चारणसामर्थ्यादेव त्वमित्यत्र सत्वन्न भवति । अन्यथा स्वाहौ सौ, इत्येव ब्रूयात् । अतोद्विपर्यन्तानामित्यनुवृत्तिरिह व्ययेत्याशङ्कय निराकरोति । न चेति ॥ तकारोच्चारणसामर्थ्यादिह सत्वन्नेति न वाच्यमि त्यन्वय । अतित्वमिति । द्विपर्यन्तानामित्यननुवृत्तौ त्वमित्यत्रापि सत्व स्यात् । नच त्वाहौ सौ' इति तृकारोच्चारणानर्थक्यम् । त्वामतिक्रान्त अतित्वमिति गौणे युष्मच्छब्दस्य त्वादेशे त्वाहाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थ न च अतित्वमित्यत्रापि सत्व प्रवृत्तेदुर्वारत्वात् त्वाहाविति तकारेणोच्चारणानर्थक्य दुर्वारमिति वाच्यम् । सत्वस्य सर्वा द्यन्तर्गणकार्यत्वेन गौणे तस्याऽप्रवृत्ते । अत एवाह संज्ञायामिति ॥ त्यदिति कस्यचिन्नामेदम् । अतित्यदिति ॥ ल्यमतिक्रान्त इति विग्रह यः इति ॥ यद्भशब्दस्य त्यदाद्यत्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराभावान्न सत्वम् । एषः इति ॥ एतद्शब्द स्य यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेष।अन्वा देशे त्विति ॥ 'द्वितीयाटौस्वेन ' इत्यस्य एतद्शब्देऽपि प्रवृत्तेरिति भाव अथ युष्म दस्मद्शब्दयो प्रक्रिया दर्शयति । ङे प्रथमयोरम् ॥‘युष्मदस्मभ्या डसोऽश्’ इत्यतो युष्मदस्म द्यामित्यनुवर्तते । परशब्दोऽध्याहर्तव्य । डे इति लुप्तषष्ठीक पृथक्पदम् । प्रथमयोरिति सत्त्व