ऋत्विग्--' (सू ३७३) इत्यादिना ऋतावुपपदे यजे. क्विन् । क्विन्नन्तत्वा त्कुत्वम् । ऋत्विक्-ऋत्विग् , ऋत्विजौ, ऋत्विज । “ रात्सस्य' (सू २८०) इति नियमान्न संयोगान्तलोपः । ऊर्क्-ऊर्ग्, ऊर्जौ, ऊर्ज ।
इति जान्ता ।
॥ अथ हलन्तपुलिङ्गे दकारान्तप्रकरणम् ।
३८१ । तदोः सः सावनन्त्ययोः । (७-२-१०६)
इत्यादावचेि पदान्तझल्परसयोगादित्वाभावान्न सयोगादिलोप । 'झलाञ्जश झशि' इति जश्त्व स्यासिद्धत्वात् सकारस्य श्चुत्वमिति भाव । तस्येति ॥ शकारस्येत्यर्थ । तालुस्थानकत्वात् शका रस्य जकार । नच जश्त्वस्यासिद्धत्वात् शकारस्य व्रश्चति षत्व शङ्कयम् । षत्व प्रति श्चुत्वस्या सिद्धत्वात् । भ्यामादौ तु “स्वादिषु' इति पदान्तत्वात् सयोगादिलोप । व्रश्चेति षत्व जश्त्वञ्च । भृङ्भ्यामित्यादि । ऋत्विगित्यादिनेति ॥ 'ऋ गतौ' औणादिकस्तु । ऋतु गमन प्राप्ति , दक्षिणाद्रव्यलाभो विवक्षित । तस्मिान्निमित्ते यजन्ति यज्ञियव्यापार कुर्वन्तीत्यर्थे ऋतावुपपदे यजधातो क्विन्‘वचिस्वपि' इति यकारस्य सम्प्रसारणमिकार । पूर्वरूपम् । यणादेशश्च । ऋत्विज् इति रूपम् । ततस्सोर्हल्डयादिलोप । एतावत् सिद्धवत्कृत्य आह । किन्नन्तत्वात्कुत्व मिति । क्विन्प्रत्ययस्येत्यनेनेति शेष । एतदर्थमेव क्विन्विधानमिति भाव । नच क्विपि ‘चो कु' इति कुत्वेनैवैतत् सिध्द्यतीति वाच्यम्। 'चो कु' इति कुत्व हि ‘त्रश्च' इति षत्वेन अपवादत्वात् बाध्द्येत । क्विन्प्रत्ययस्येति कुत्वन्तु क्विन्विधिसार्मर्यादेव न बाध्द्यते । यष्टेत्यादौ षविधेश्चरिता र्थत्वादिति भाव । ऊर्क-ऊर्ग इति ॥ 'ऊर्ज बलप्राणनयो 'चुरादिण्यन्तात् ‘भ्राजभास’ इत्या दिना क्विप्, णिलोप । ऊर्ज इति रूपम् । ततस्मोर्हल्डयादिलोप । 'चो कु ' इति जस्य कुत्व गकार । “वावसाने' इति चर्त्वविकल्प । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्व शङ्कयम् । पदान्तविधौ तन्निषेधात् । “पूर्वत्रासिद्धीये न स्थानिवत्' इति वचनाच्च ॥ इति जान्ता । अथ दकारान्ता निरूप्यन्ते । त्यद्दशब्दस्तद्शब्दपर्याय । तस्य विशेषमाह । त्य दाद्यत्वं पररूपत्वमिति ॥ सर्वत्र विभक्तावुत्पन्नाया “त्यदादीनाम्' इति दकारस्यान्त्यस्य अकार “अतो गुणे' इति पररूपञ्चेत्यर्थ । ततश्च अदन्तवद्रूपाणीति भाव । त्य स् इति स्थिते। तदोः सः सावनन्ययोः ॥ त्यदादीनामिति ॥‘त्यदादीनाम 'इत्यतस्तदनुवृत्तेरिति