पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२६२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता।

३८३ । मपर्यन्तस्य । (७-२-९१)

इत्यधिकृत्य ।

३८४ । त्वाहौ सौ । (७-२-९४)

युष्मदस्मदोर्मपर्यन्तस्य त्व अह् इत्येतावादेशौ स्त सौ परे ।

३८५ ॥ २ष लापः । (७-२-९०)

आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोप स्यात् ।

  • अतो गुणे' (सू १९१) । * अमि पूर्व ' (सू १९४) त्वम्। अहम् । ननु

त्वम् स्री' * अहम् स्त्री' इत्यत्र *त्व अम्' * अह अम्' इति स्थिते अमि पूर्वरूप परमपि बाधित्वान्तरङ्गत्वाट्टाप् प्राप्तोति । सत्यम् । अलिङ्गे युष्म दृस्मदी । तेन स्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकर


प्रथमाद्वितीयाविभक्तयोलाक्षणिकामिति भाष्यम् । तदाह । युष्मदस्मद्भयामित्यादिना ॥ सोरमादेशे कृते “न विभक्तौ' इति मस्य नेत्वन् । युष्मद् अम् अस्मद अम् इति स्थितम् । अधिकृत्येति ॥ कार्याणि वक्ष्यन्ते इति शेष । त्वाहौ सौ ॥ त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । ‘युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह । युष्मदस्मदोरित्यादिना ॥ त्व अद् अम् अह् अद् अम् इति स्थितम् । यद्यप्यत्र “त्वमा वेकवचने' इत्येव युष्मद्भशब्दस्य त्वादेशस्सिद्ध । तथापि युष्मानतिक्रान्त अतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्मद्विधानम् । नहि तत्र “त्वमावेकवचने ' इत्यस्य प्रवृत्तिरस्ति । अत्र युष्मद्शब्दस्य बहुत्वविशिष्टे वृते । एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची । नतु एकवचनसज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते । शेषे लोप ।। * अष्टन आ विभक्तौ' इत्यत आ इत्यनुवर्तते । विभक्तावित्यनुवृत्त शेष इत्यनेनान्वेतेि । 'युष्मदस्मदोरनादेशे, द्वितीयायाञ्च प्रथमायाश्च द्विवचने भाषाया, “योऽचि' इत्यात्वयत्वयो प्रागुक्तत्वात्तद्विषयातिरिक्तविभक्तिरिह शेषशब्दार्थ । युष्मदस्मदोरिति चानुवृत्तम् । तदाह । आत्वयत्वेति । अन्यस्येत्यलो ऽन्त्यपरिभाषालभ्यम् । शेषग्रहणमिह विभक्तिाविशेषण स्पष्टार्थमेव । “विशषविहिताभ्यामात्व यत्वाभ्या स्वविषये बाधसम्भवात्” इति प्रकृतसूत्रे ‘युष्मदस्मद्भया डसोऽश्’ इति सूत्रे च भाष्य कैयटयो स्पष्टम् । अतो गुणे इति । पूर्वयोरकारयो पररूपमिति भाव । त्व अम्, अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कय आह । अमि पूर्वः इति । अत्र शङ्कते । नन्विति ॥ “ननु चस्याद्विरोवोक्तौ' इत्यमर । शङ्कायामिति यावत् । अन्तरङ्गत्वादिति ॥ “ अजाद्यत ' इति टाप परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्व बोध्यम् । अर्धाङ्गीकारेण परिहरति । सत्य मिति ॥ पररूपादन्तरङ्गष्टाबित्यङ्गीक्रियते । इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियत इत्यर्थः । अलिङ्गे युष्मदस्मदी इति ॥ 'साम आकम्' इति सूत्रे भाष्ये पठितमेतत् । युष्मदस्मदी