सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३७४ । कृदतिङ् । (३-१-९३)

सन्निहिते धात्वधिकारे तिड़भिन्न ' प्रत्यय कृत्संज्ञः स्यात् ।

३७५ । वेरपृक्तस्य । (३-१-६७)

अपृक्तस्य वस्य लोप. स्यात् । * कृत्तद्धित-' (सू १७९) इति प्राति पदकत्वात्स्वादय।

३७६ । युजेरसमासे । (७-१-७१)

युजेस्सर्वनामस्थाने नुम्स्यादसमासे । सुलोप * संयोगान्तलोप. (सू ५४) ।

३७७ । किन्प्रत्ययस्य कुः । (८-२-६२)

किन्प्रत्ययो यस्मात्तस्य कवगोंऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनानु


च सूत्राभ्यामिति शेष । वकारादिकारस्तु उच्चारणार्थ । अथ क्विन्नन्तस्य “कृत्तद्धित' इति प्रातिपदिकत्व वक्तु क्विन कृत्सज्ञा दर्शयति । कृततिङ् । धातोरित्यधिकृतम् । प्रत्यय इति च विहितः प्रत्यय इति लभ्यते । तदाह । सन्निहिते धात्वधिवकारे इति । धातोरिति विहितविशेषणम् । धातोरित्यधिकृत्य विहित इति यावत् । तेन णिजादिनिरास । युज व् इति स्थिते । वेरपृक्तस्य ॥ “लोपो व्यो ' इत्यत लोप इत्यनुवर्तते । उत्सृष्टानुबन्धास्सर्वे क्रिबादयो वेरित्यनेन गृह्यन्ते । उकार उच्चारणार्थ । अपृक्तग्रहणात् । तदाह । अपृक्तस्य वस्येति ॥ अपृक्तस्येति किम् । जाग्रवि । केिन । कृत्सज्ञाया प्रयोजनमाह । कृत्तद्धितेति ॥ युजेरसमासे ॥ उगिदचामित्यत सर्वनामस्थान इत्यनुवर्तते । “इदितो नुम् धातो ' इत्यतो नुमिति च । तदाह । नुम्स्यादेत्यादेना ॥ युन् ज इति स्थिते प्रक्रिया दर्शयति । सुलोपः इति ॥ परत्वात्पूर्व नुमिततो हल्डयादिलोप इति भाव । संयोगान्तलोप इति ॥ जकारस्येति शेष । क्रिन्प्रत्ययस्य कुः ॥ पदस्य इत्यधिकृतम् । 'झलाञ्जशोऽन्ते' इत्यत अन्त इत्यनुवर्तते । क्रिन् प्रत्ययो यस्मात् स क्रिन्प्रत्यय तस्येति बहुव्रीहि । क्रिन्नन्तस्येति तु नार्थ . । तथासति क्रिन. कुरित्येव बूयान् । प्रत्यग्रहणपरिभाषया क्रिन्नन्तस्ये त्यर्थलाभात् । तदाह । क्रिन्प्रत्ययो यस्मादित्यादिना ॥ बहुव्रीहे प्रयोजनन्तु घृतस्पृश्शब्द निरूपणे मूल एव वक्ष्यते । कुरिति कवर्गे गृह्यते । उदित्वात् अणुदित्सूत्रे अप्रत्यय इत्येतत् अणैव सम्बद्धद्यते । नतु उदिता । उदित्करणसामर्थ्यात् । तेन कुरिति विधीयमानोपि सवर्णग्राहक. । ननु नकारस्य कुत्वे कखगघडा पञ्चापि पर्यायेण प्राप्नुयुः । स्थानत आन्तर्यस्यं पञ्चस्वप्यभावात् । स्पृष्टप्रयत्न्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् घोषसम्वारनादवता अल्प प्राणवताच । नकारेण गकारस्यापि आन्तर्यसत्वात् । अत आह । नस्येति ॥ नासिकास्थानत