॥ अथ हलन्तपुलिङ्गे धकारान्तप्रकरणम् ॥
भष्भाव । जश्त्वचत्वें । भुन्-भुद्, बुधौ, बुध । बुधा । मुद्भयाम् । भुत्सु । इति धान्ता ।
॥ अथ हलन्तपुलिंङ्गे जकारान्तप्रकरणम् ।।
३७३ । ऋत्विग्द्धृक्स्रग्द्गुिष्णिगञ्चुयुजिक्रुञ्चां च । (३-२-५९)
एभ्य किन् स्यात् । अलाक्षणिकमपि किञ्चित्कार्य निपातनालभ्यते । निरुपपदाद्युजे. किन् । कनावितौ ।
अथ धकारान्ता निरूप्यन्ते ॥ 'बुध अवगमने' कर्तरि क्विप् । बुध् इति धका रान्तश्शब्द । ततस्सुबुत्पत्ति । सौ विशेषमाह । भष्भावः इति ॥ हल्डयादिना सुलोपे सति प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा पदान्तन्वाद्वा ‘एकाचो बश ' इति बकारस्य भष्भकार इत्यर्थे । जश्त्वचर्त्वे इति । “वाऽवसाने ’ इति चर्त्वविकल्प इति भाव । भ्यामादौ स्वादिषु' इति पदत्वात् भष् जश्त्वम् । भुभ्याम् । भुद्भि । भुभ्य । भुत्सु ॥ इनि धान्ता । अथ जकारान्ता निरूप्यन्ते । अथ यज्शब्दस्य व्युत्पत्तिन्दर्शयितुमाह । ऋत्विग्द धृक् । धातोरित्यधिकृत स्पृशोऽनुदके किन्नित्यनुवर्तते । पञ्चम्यर्थे षष्ठी । तदाह । एभ्यः इति । ऋतौ उपपदे यज्वातो, धृष्धातो, सृज्धातो , दिश्धातो ,ष्णिड्धातो, अञ्चुधातो युज्धातो, कुञ्धातोश्वेत्यथ । ननु ऋत्विक्, दधृक्, इत्यादौ कुत्वद्वित्वादि कुत इत्यत आह । अलाक्षणिकमपीति ॥ लक्षणानि सूत्राणि, तद्विहित कार्य लाक्षणिकम् । सूत्रत प्रत्यक्षानु पदिष्टमपि कार्य निपातनात् सिद्धरूपनिर्देशातू लभ्यत इत्यर्थ । तत्र ऋतावुपपदे यजे किन् । तस्य कित्त्वात् “वचिस्वपियजादीनाम्' इति सम्प्रसारण ' व्रश्च' इति षत्वापवाद कुत्वञ्च । वृषे क्विनि द्वित्वमन्तोदात्तत्वञ्च । सृजे कर्मणि क्विन् । अमागमाश्च । दिशे कर्मणि क्विन् । उत्पूर्वात् न्निहे किन्, उदो दलोपष्षत्वञ्च । अच्चेस्सुप्युपपदे क्विन् । युजे केवलात् क्विन् नलोपाभावश्च निपात्यते । यद्यपि अञ्चे केवलस्यैवोपादानम् । तथाप्युष्णिक्शब्दसाहचर्यात् सोपपदस्यैवावेर्ग्रहणमित्याहु । निरुपपदात् क्विन् । विधिफल हि नुमो नस्य कुत्वमेव नुम् च असमास एव वक्ष्यते । समासे तु सुयुगित्यादौ जस्य 'चो कु ' इति कुत्वेनैव सिद्धतया क्विनि क्विपि च विशेषाभावादिति भाव । कनाविताविति ॥ लशक्वतद्धित इति हलन्त्यमिति