पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता ।


प्रियाष्ट्ना इत्यादि । जश्शसोरनुमीयमानमात्वं प्राधान्य एव । न तु गौणता याम्। तेन प्रियष्ट्नो हलादावेव वैकल्पिकमात्वम् । प्रियाष्टा । प्रियाष्टाभ्याम् । प्रेियाष्टाभिः । प्रियाष्टाभ्य । प्रियाष्टाभ्य । प्रियाष्टासु ।

"प्रियाष्ट्नो राजवत्सर्व हाहावच्चापर हलि ।”

इति नान्ता


पक्षो नाश्रीयते इत्यन्यत्र विस्तर । अथ प्रियाष्टन्शब्दस्यात्वपक्षे विशेषमाह । जश्शसो रिति ॥ * अष्टाभ्य औश' इति जश्शसोरौशादेशविवौ कृतात्वनिर्देशान् ज्ञाप्यमानमात्वमष्ट न्शब्दस्य प्राधान्ये सत्येव भवति । न तूपसर्जनत्वेऽपि । अष्टाभ्य इति बहुवचननिर्देशात् । अन्यथा हाह इति पञ्चम्यन्तवत् 'अष्ट औश्’ इति निदिशेत्” इति ' ष्णान्ता षट्’ इति सूत्रे भाष्ये स्पष्टम् । तत किमित्यत आह । तेनेति । अष्टन्शब्दस्य गौणताया जश्शसोर्विषये आत्वाभावेनेत्यर्थ । हलादावेवेति । “ अष्टन आ विभक्ता' इत्यत्र अष्टन इत्येकवचन निर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाभावादिति भाव । 'गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्यय' इत्यपि नात्र प्रवर्तते । तथा सति ‘अष्टाभ्य औश्’ इत्यत्र बहुवचनवैयर्थ्यादिति बोध्यम्। हलादावेवेत्येवकारेण जश्शसोरप्यात्वस्य पक्षेऽपि व्यावृत्तिरुक्तैवानूद्यते औडादौ तु हलादि त्वाभावादेव आत्वस्य न प्रसक्ति । प्रियाष्टाः इति ॥ सौ हलि * अष्टन आ विभक्तौ इत्यात्वे रुत्वविसर्गे इति भाव । ‘षड्भ्यो लुक्’ इति, ‘षट्चतुर्भ्य'इति च, गौणताया न प्रवर्तत इति च प्रागुक्त न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि । हलादिषु पक्षे आत्वमिति स्थितम् । तदेत्सङ्गृह्णाति । प्रियाष्ट्रनो राजवदिति ॥ प्रियाष्टन्शब्दस्याजादिषु विभक्तिषु राजवदेव सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशव्दवदन्यच रूपम् । चकारा द्राजवदपि । तदित्थमत्र रूपाणि । प्रियाष्टा । प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टान । प्रियाष्टानम्, प्रियाष्टानौ । प्रियाष्टाना । प्रियाष्टाभ्याम् प्रियाष्टभ्याम् । प्रियाष्टभि -प्रियाष्टभि । प्रियाष्टने । प्रियाष्टाभ्याम्-प्रियाष्टभ्याम् । प्रियाष्टाम्य –प्रियाष्टम्य । प्रियाष्ट्न, प्रियाष्टाभ्याम्-प्रिया ष्टभ्याम् । प्रियाष्टाभ्य -प्रियाष्टम्य । प्रियाष्ट्न । प्रियाष्ट्नो । प्रियाष्ट्नाम् । प्रियाष्टिन प्रियाष्टनि । प्रियाष्ट्नो । प्रियाष्टासु-प्रियाष्टसु । वस्तुतस्तु 'ष्णान्ता षट्' इति सूत्रे भाष्ये अष्टन आ विभक्तौ' इत्यत्र हलीत्यपकर्षमुक्ता“प्रियाष्टौ, प्रियाष्टा इति न सिध्द्यति । प्रियाष्टानौ, प्रियाष्टान इत्येव प्राप्नोति” इति शङ्किते “यथालक्षणमप्रयुक्ते” इति समाहितम्। “नैव वा लक्षण मप्रयुक्त प्रवर्तते । प्रयुक्तानामेवान्वाख्यानात् ” इति कैयट । एवञ्च एषामनभिधानमेवोचितम् । अत एव “ अष्टाभ्य औश्’ इति सूत्रे भाष्ये “अष्टन आत्व इह वैकल्पिकम् । यदयमात्वभूतस्य ग्रहण करोति अष्टाभ्य इति । अन्यथा अष्टन इत्येव बूयात्” इत्युक्तम् । प्रियाष्टन्शब्दस्य लोके प्रयोगसत्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात् तदसङ्गति स्पष्टैव । तस्मात् “प्रियाष्टन्शब्दप्रयोगविचारस्सर्वोऽपि अभित्तिचित्रायित ” इति शब्देन्दुशेखरे प्रपश्चितम् । इति नान्ता ॥