पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


जकारान्तप्रकरणम्]
२५७
बालमनोरमा ।

नासिको डकारः । युड् । *नश्चापदान्तस्य (सू १२३) इति नुमोऽनुस्वार परसवर्ण. । तस्यासिद्धत्वात् चोः कु.' (सू ३७८) इति कुत्वं न । युञ्जौ, युञ्ज. । युञ्जम्, युञ्जौ, युज । युजा । युग्भ्याम् इत्यादि । “ असमासे' किम्

३७८ । चोः कुः । (८-२-३०)

चवर्गस्य कवर्ग स्याज्झलि पदान्ते च । इति कुत्वम् । किन्प्रत्य यस्य- (सू ३७७) इति कुत्वस्यासिद्धत्वात् । सुयुक्-सुयुग्, सुयुजौ सुयुज' इति धातुपाठपठितेकारविशिष्टस्यानुकरणम् न त्विका नि


आन्तर्यादिति भाव । युङिति ॥ युजिर्योगे । रुधादि । युनक्तीति युड् । नुमि कृते तदीय नकारस्य ‘चो कु' इति कुत्व न प्राप्तोतीति क्विन्प्रत्ययस्येत्यारम्भ । अथ औजसादिषु विशेषमाह नश्चेति ॥ नुमः इति ॥ “युजेरसमासे' इति विहितस्येति शेष । परसवर्णः इति अनुस्वारस्य ययि’ इति परसवर्णो नकार । नासिकास्थानत आन्तर्यादिति भाव तेन युञ्जा वित्यादि सिद्धम् । नन्विह लकारस्य झलि जकारे परे “चो कु' इति कुत्व कुतो न स्यादित्यत आह । तस्येति ॥ परसवर्णस्येत्यर्थ । युग्भ्यामिति ॥ 'स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भाव । युक्षु। असमास इत्यस्य व्यावर्त्य सुयुज्शब्द कथयिष्यन् तत्र विशेषमाह चोः कुः॥ ‘झलो झलि’ इत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम्।‘स्कोस्सयोगाद्यो 'इत्यतोऽन्ते इत्यनुवर्तते । तदाह। चवर्गस्येति ॥ ननु ‘चो ' इत्यत्र उकारस्य उपदेशाभावात् इत्वाभावेन उदित्वाभावात् कथमिह सवर्णग्रहणमिति चेत्, चो इत्युकारान्तग्रहणसामर्थ्यादेव तत्र उका रस्य इत्वाभ्यनुज्ञानात् । अन्यथा ‘च कु' इत्येव ब्रूयात् इति । कुत्वमिति ॥ सुयुज्शब्दे जकारस्य कुत्व गकार घोषसवारनादाल्पप्राणसाम्यात् यथासङ्खयसूत्राच्चेति भाव नन्विह 'क्विन्प्रत्ययस्य' इत्येव कुत्व कुतो न स्यात् । यद्यपि सुपूर्वाद्युजे 'सत्सूद्विष' इत्यादिना क्विपि उपपदसमासे सुयुज्शब्द न क्विन्नन्तोऽयम् । निरुपपदाद्युजे क्विन्निति अनुपदमे वोक्तत्वात् । तथापि क्विन् प्रत्ययो यस्मात् इति बहुव्रीह्याश्रयणात् सम्प्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आह । क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति ॥ तथाचात्र चो कु ' इत्येव न्याय्यमिति भाव । सुयुक्-सुयुगिति वावसाने ' इति चर्त्ववेि कल्प । ननु युक् इत्यपि रूपमिष्ट कथ सिध्द्येत् । क्विनि नुमि युडित्येवापत्ते । नच ऋत्विक् इत्यादिसूत्रे ‘युजेरसमासे’ इति सूत्रे च युजीति इकारविशिष्टस्यैव निर्देशात् ‘युज समाधौ' इति दैवादिकस्य अकारान्तस्याग्रहणात् तत क्विप् च, इति क्विपि नुमभावे कुत्वे युक् इति सिध्द्यतीति वाच्यम्। ‘इक्श्तिपौ धातुनिर्देशे' इति इक्प्रत्ययान्तस्य उभयत्रापि सम्भवेन उभाभ्या क्विनि नुमि युडित्येवापत्तेरित्यत आह । युजेरिति उपलक्षणमेतत् । ‘युजेरसमासे' इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे ‘युजिर् योगे' इति इकारविशिष्ट य पठितः तस्यैव रेफशि