पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


नकारान्तप्रकरणम्]
२५१
बालमनोरमा ।

षान्ता नान्ता च सङ्खया षट्संज्ञा स्यात् । *षड्भ्यो लुक्' (सू २६१) पञ्च पञ्च सड्खया' किम् । विप्रुष । पामान शतानि' * सहस्राणि इत्यत्र सन्निपातपरिभाषया न लुक् । सर्वनामस्थानसन्निपातेन कृतस्य नुमस्त दविघातकत्वात् । पञ्चभि ।पभ्चय पञ्चभ्य षट्चतुर्भ्यश्च' (सू ३३८) इति नुट् ।

३७० । नोपधायाः । (६-४-७)

नान्तस्योपधाया दीर्घ स्यान्नामि परे । नलोप पञ्चानाम् । पञ्चसु परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुग्नुटौ । प्रियपञ्चा । प्रियपञ्चा नौ प्रियपञ्च्व्यान। प्रिय पञ्च्ञ्याम् एवं सप्तन् नवन् दशन्



ध्णौ प्रुत्वेन ण । ष्णो अन्तौ यस्यास्सा ष्णान्ता वहुगणवतुडति सङ्खया' इत्यत सङ्खयेत्यनु तत्र पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्चषडित्यादिप्रसिद्धसङ्खयाबोधः कशब्दपरमाश्रीयते । बहुगणवतुडतिषु ष्णान्तत्वासम्भवात् । तदाह । षान्तेत्यादिना षड्भ्यो लुक् इति ॥ अनेन जश्शसोर्लुगिति शेष पञ्च । पञ्चेति ॥ जश्शसोर्लुकि नलोप इति भाव सङ्खया किमिति ॥ सङ्खयाग्रहणानुवृत्ते किं फलमिति प्रश्र विप्रुषः । पामानः इति ॥ विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्खयावाचक त्वाभावेन षट्सज्ञाविरहात् तत परस्य जसो न लुगिति भाव । ननु शतशब्दान् जश्शसोश्शि भावे “नपुसकस्य झलच ' इति नुमि ‘सर्वनामस्थाने च' इति दीर्घे शतानीति रूपम् । एव सह स्राणीत्यपि रूपम् । तत्र “अट्कुप्वाड्’ इति णत्व विशेष । इह ‘तदागमा ' इति न्यायेन नुम अङ्गभक्तत्वात् शतन्शब्दसहस्रन्शब्दयो नान्तसङ्खयाशब्दत्वात् षट्सज्ञाया सत्या “षड्भ्यो लुक् इति जश्शसोर्लुक् स्यादत आह । शतानीत्यादि । सर्वनामेति । सर्वनामस्थान परत्वेन उपजीव्य प्रवृत्तस्याम सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुक प्रति निमित्तत्वा भावादित्यर्थ । पञ्चभिः । पञ्चभ्यः इति ॥ नलोपे रूपम् । पञ्चन् आम् इति स्थिते । “षट् चतुर्भ्यश्च' इति नुटि नलोपे तस्यासिद्धत्वात् नामि' इति दीर्घे अप्राप्ते आह । नोपधाया नेति लुप्तषष्ठीकम् अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्ताविधि ढ्रलोपे' इत्यतो दीर्घ इत्यप्यनुवर्तते । “नामि' इति सूत्रञ्च । तदाह । नान्तस्येत्यादिना ॥ नलोपः इति नलोपस्यासिद्धत्वात् प्रथम दीर्घे ततो नलोप इत्यर्थ । परमेति ॥ परमाश्च ते पञ्च चेति विग्रह षड्भ्यो लुक्' इत्यस्य ‘षट्चतुर्भ्यश्च' इत्यस्य चाङ्गत्वात् तदन्तेऽपि प्रवृत्तिरिति भाव । प्रिया पञ्च यस्येति बहुव्रीहौ प्रियपञ्चन्शब्दो विशेष्यानिघ्न त्रिलिङ्ग । तस्य पुस्त्वे विशेषमाह गौणत्वे त्विति ॥ *षड्भ्यो लुक्' इति * षट्चतुर्भ्यश्च' इति च बहुवचनानिर्देशेन षट्चतुरर्थ प्राधान्यावगमादिति भाव । प्रियपञ्चेति ॥ सुटि हलादौ च राजवत् । शसादावचि तु अल्लोपोडन इत्यकारलोपे नुटश्चुत्वेन अकार । चकारे तु परे अनुस्वारस्य परसवर्णे अकारः