पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२५२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३७१ । अष्टन आ विभक्तौ ७८४)

अष्टन आत्व स्याद्धलादौ विभक्तौ ।

३७२ । अष्टाभ्य औशू । (७-१-२१)

कृताकारादष्टन परयोर्जश्सोरौश स्यात् । “ अष्टभ्य ' इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । { वैकल्पिक चेदमष्टन आ त्वम्’ । * अष्टनो दीर्घात्' (सू ३७१८) इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । अष्टाभि । अष्टाभ्य । अष्टाभ्य ।


स्थित एव । तथाच जकारद्वयमध्ध्ये चकार । अष्टन्शब्दो नित्य बहुवचनान्त । तस्य विशेष माह । अष्टन आ विभक्तौ ॥ 'रायो हलि' इत्यत हलि इत्यपकृष्यते । तच विभक्तेर्विशेष णम् । तदादिविधि । तदाह । अष्टन आत्वमित्यादिना ॥ ग्रहणकसूत्रे अण्ग्रहणेन वार्ण समाम्नायिकानामेव ग्रहणादाकारस्यानण्त्वात्तू भाव्यमानत्वाञ्च शुद्ध एव नकारस्य अकार । अष्टाभ्य औश् ॥ “जश्शसोश्शि ' इत्यत जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी । तस्मादित्युत्तरस्येत्युपतिष्ठते । अष्टा इत्याकारान्तशब्दो विवक्षित । तदाह । कृताकारा दित्यादिना ॥ नकारस्यात्वे कृते सति य अष्टाशब्द तस्मादित्यर्थ । शित्वात् सर्वादेश । ‘आदे परस्य’ इति तु नात्र प्रवर्तते । ‘अनेकाल्शित्’ इति परणे तस्य बाधात् । औशादेशोऽय षड्या लुकू' इत्यस्यापवाद । ननु जश्शसो परत अष्टन्शब्दस्यात्वन्नास्त्येव । 'अटन आ। विभक्तौ' इति आत्वविधौ हलीस्यपकर्षस्य उक्तत्वात् । ततश्च जश्शसोरौश्विधौ कृताकारात् अष्टन इत्यनुपपन्नम् । तत्राह । अष्टभ्य. इति वक्तव्ये इत्यादि । भ्यसि अष्टाभ्य अष्टभ्य इति रूपद्वये सत्यपि औविधौ लाघवादष्टभ्य इत्येव निर्देश उचित । आकारनिर्देशात्तु जशसोरचि परतोऽग्यात्व विज्ञायत इत्यर्थ । ननु * अष्टन आ विभक्तौ' इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानात् अष्टाभ्य इत्येव निर्देष्टव्यम् । प्रामाणिकगौरवस्यादोषत्वात् । ततश्च औश्विधैौ अष्टाभ्य इति निर्देश जश्शसोरष्टन कथमात्व ज्ञापयेदित्यत आह । वैकल्पिक ञ्चेदमिति ॥ ज्ञापकादिति ॥ “अष्टनो दीर्घात्' इति सूत्रम्। दीर्घान्तादष्टन्शब्दात् परा असर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थं । अष्टाभिर्विकर्षतीत्यत्र भकारादिकार उदात्त । अनुदात्त पदमेकवर्जम्' इति शिष्टमनुदात्तम्। दीर्घौदिति विशेषणात् अष्टभिरित्यत्र आत्वाभाव स्थले भिस उदात्तत्वन्न भवति । किन्तु मध्योदात्तत्वमेव । झल्युपोत्तममित्यस्यानुवृत्ते । षट्चतुभ्यों या झलादिविभक्ति तदन्ते पदे विद्यमानमुपोत्तममुदात्त स्यादिति तदर्थं । यदि तु अष्टन आत्व नित्य स्यात् तर्हि अष्टभिरिति हूस्वान्तव्यावृत्तये क्रियमाणदीर्घग्रहणमनर्थक स्यात् । व्यावर्त्याभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावर्त्यस्य सत्त्वात् दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थ अष्टाविति ॥ अष्टन्शब्दात् जश्शसेोरौश । शित्वात् सर्वादेश । अष्टाभ्य इति निर्देशात्