पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२५०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

नगरी । अनृभुक्षी सेना । आत्वं नपुंसके न भवति * न लुमता-' (सू २६३) इति प्रत्ययलक्षणनिषेधान् । सुपथि वनम् । “ सम्बुद्धौ नपुंसकानां नलोपो वा वाच्य ' (वा ४७८६) । हे सुपथिन्-हे सुपथि । “ नलोप सु प्स्वर-' (सू ३५३) इति नलोपस्यासिद्धत्वाद्धस्वस्य गुणो न । द्विवचने भत्वाट्टिलोप । सुपथी । शौ सर्वनामस्थानत्वात्सुपन्थानि । पुनरपि सुपथि , सुपथी, सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ।

३६९ । ष्णान्ता षट् । (१-१-२४)


भवति । पन्था । “एरनेकाच ' इति यण बाधित्वा परत्वान्नित्यत्वाच्च ‘थो न्थ ' । ततस्सयो गपूर्वत्वान्न यण् । किन्त्वियडेव । पन्थियौ । 'भस्य टेर्लोप ? पथ इत्यादिप्रौढमनोरमातत्वबो धिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायानुनासिकस्यैव उच्चारणे कायें तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयते क्विपि हि नकारस्य शुद्धाकारार्थ अनुनासिकानुच्चारणस्यावश्यकत्वे तद्सङ्गति स्पष्टैव । तस्मात् पथीयते क्विप अनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् । प्रसङ्गादाह । स्त्रियामिति ॥ सु शोभन पन्था अस्या इति बहुव्रीहि । 'ऋत्रेम्य ' इति डीप् । 'भस्य टेर्लोप '. इति इनो लोप । सुपथीति रूपम् । 'ऋक्पू ' इत्यप्तु न । “न पूजनात्' इति निषेधात् । नचैवमपि “न पूजनात्' इति निषेधस्य षच प्रागेव प्रवृत्तेर्वेक्ष्यमाणत्वात् “इनस्स्त्रियाम्' इति कप् दुर्वार एवेति वाच्यम् । 'युवोरनाकौ' इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषया “पथिमथि' इत्यात्व, थो न्थश्च कुतो नेति वाच्यम् । विभक्तौ लिङ्गविशिष्टाग्रहणात् । सुपथी इति ॥ सु शोभनो इति विग्रह । डीबादि पन्था यस्या पूर्ववत् । अनृभुक्षी सेनेति अविद्यमान ऋभुक्षा यस्या इति विग्रह। र्थानाम्' इति समास । अथ सु शोभन पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुस कात् 'स्वमोर्नपुसकात्' इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्वात् “पथिमथि इत्यात्वमाशङ्कय आह । आत्त्वन्नपुंसके इति ॥ सम्बुद्धाविति ॥ यद्यपि भाष्ये नपु सकानामित्येव पठितम् । तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाहृतत्वात् तन्मा त्रविषयत्वमस्येति भाव । सम्बुद्धेर्लुका लुप्तत्वात् सम्बुद्धिपरत्वाभावातू “न डिसम्बुद्यो ' इति निषेधाप्रवृते नित्यन्नलोपप्राप्तौ विकल्पार्थोऽयमारम्भ । ननु नलोपपक्षे 'ह्रस्वस्य गुण ’ इति सम्बुद्धौ परत गुणे कर्तव्ये 'न लुमता' इति निषेधस्यानित्यत्वात् हे वारे-हे वारि इतिवत् गुणविकल्पस्यादित्यत आह । नलोपः सुबिति । द्विवचने इति ॥ सुपथिन्शब्दातू औड शीभावे सति असर्वनामस्थानत्वेन भत्वात् “भस्य टेर्लोप ? इति इनो लोपे सुपथी इति रूप मित्यर्थ । शाविति ॥ सुपथिन्शब्दात् जश्शसोश्शिभावे सति तस्य सर्वनामस्थानत्वात् *इतोऽत्' इत्यत्वे, 'थो न्थ ' इति थस्य न्थादेशे नान्तत्वात् दीर्घ सुपन्थानि इति रूपमित्यर्थ । पञ्चन्शब्दो नित्य बहुवचनान्तः । तस्य षट्सज्ञाकार्ये लुक विधास्यन् षट्सज्ञामाह। ष्णान्ता षट् ॥ ष्च नश्च