पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नकारान्तप्रकरणम्]
२४७
बालमनोरमा ।

मघोनः । मघवभ्याम् इत्यादि । शुन , शुना, श्वभ्यामित्यादि । “युवन् शब्दे वस्योत्वे कृते ।

३६३ । न सम्प्रसारणे सम्प्रसारणम् । (६-२-३७)

सम्प्रसारणे परत. पूर्वस्य यण सम्प्रसारण न स्यात् । इति यकारस्य नेत्त्वम् । अत एव ज्ञापकादन्त्यस्य यण पूर्व सम्प्रसारणम् । यून , यूना युवभ्यामित्यादि । अर्वा । हे अर्वन् ।


सारणमिति भाव । मघवभ्यामिति ॥ भ्यामादौ हलि नलोप इति भाव । इत्यादीति ॥ मघोने । मघोन , मघोनो , मघोनाम् । मघोनि । श्वन्शब्द प्रायेण राजवत् । शसा दावचेि ‘श्वयुव' इति सम्प्रसारण वकारस्य उकार । शु अन् इति स्थिते “सम्प्रसारणाच्च इति पूर्वरूपमिति मत्वा आह । शुन• । शुनेति ॥ इत्यादीति । शुने । शुन , शुनो , शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह । युवन्शब्दे इति ॥ युवन् अस् इत्यादिस्थिते 'श्वयुव' इति वकारस्य सम्प्रसारणे उकारे यु उ अन् इति स्थिते सम्प्रसारणाञ्च' इति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि सम्प्रसारणे प्राप्त इत्यर्थ । * लक्ष्ये लक्षणस्य सुकृदेव प्रवृत्ति ” इत्यस्य तु नाय विषय । कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा सस्कर्तेत्यादौ “अनचि च' इत्यादेरसकृ त्प्रवृत्त्यनुपपत्तेरिति भाव । न सम्प्रसारणे ॥ इति यकारस्येति ॥ सवर्णदीर्घनिष्पन्नस्य उकारस्य “ अच परस्मिन्' इति स्थानिवत्वेन सम्प्रसारणतया यकारस्य सम्प्रसारणपरकत्वात् न सम्प्रसारणमिकार इत्यर्थ । ननु उकारद्वयस्थानिकस्य ऊकारस्य स्थानिवत्वे सति तस्य उकारद्वयात्मकतया प्रथमेन उकारेण व्यवधानात् सम्प्रसारणपरत्वाभावात् कथमिह निषेध । येन नाव्यवधानम्’ इति न्यायस्य तु नाय विषय । विव्याथेत्यादौ *व्यथो लिटि' इति वकारस्याव्यवहितसम्प्रसारणपरत्वे निषेधस्य चरितार्थत्वान् इति चेन्मैवम् । एव हि सति न सम्प्रसारणे सम्प्रसारणम्' इति निषेधस्य “व्ययो लिटि' इति सम्प्रसारणमात्रविषयकत्व मापद्येत । एवञ्च सति 'व्ययो लिटि' इति यकारग्रहणेनैव सिद्धे “न सम्प्रसारणे सम्प्रसार णम्' इति सूत्रमनर्थकमेव स्यात् । अत 'श्वयुव' इति सम्प्रसारणनिषेधकत्वमस्यावश्यक मिति व्यवहितेऽपि सम्प्रसारणे परे यून इत्यादौ निषेधो निर्बाध । “यूनस्ति ? इत्यादिनिर्दे शाचेत्यलम् । ननु सकृत् प्रवृत्त्यैव युवन्शब्दे यवयोस्सम्प्रसारणे जाते निषेधो व्यर्थ । निमित्तत्वानुपपत्तिश्च । यद्वा प्रथम यकारस्य सम्प्रसारणमस्तु । तदानी सम्प्रसारणपरत्वा भावेन निषेधाप्रवृत्ते । अनन्तरन्तु वकारस्यापि सम्प्रसारणमस्तु । तत्राह । अत एव झापकादिति ॥ अन्यथा एतन्निषेधारम्भवैयर्थ्यापातादिति भव । इत्यादीति ॥ यूने । यून, यूनो । यूनि । “ आतो मनिन्क्वनिव्वनिपश्च, अन्येभ्योऽपि दृश्यते’ इति ऋधातो वनिपि गुणे रपरत्वे अर्वन्शब्द अश्व योगरूढ । तस्य सौ राजवद्रूप मत्वा आह । अर्वा ।