पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२४६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३६२ । श्वयुवमघोनामतद्धिते । (६-४-१३३)

अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे सम्प्रसारण स्यात् । सम्प्रसार णाच्च' (सू ३३०) । “आद्गुण.' (सू ६९) । मघोन । “ अन्नन्तानाम्' किम् । मघवत. । मघवता । स्रिया मघवती । * अतद्धिते' किम् । माघवनम् ।


र्जम्' इति शिष्टस्वरेण मकाराद्कार वकारादकारश्चानुदात्त । ‘उदात्तादनुदात्तस्य स्वरित ' इति विकारादकारस्स्वरित । तथाच मघवान्निति रूप मध्योदात्त सम्पद्यते । एतादृशमघवन्श ब्दविषयक छान्दसत्वाभिधानम् । कन्यन्ते तु मघव-शब्दे वकारादकार प्रत्ययस्वरेणोदात्त । शिष्टस्वरेण मकारादकार घकारादकारश्च अनुदात्तौ । तथाच मघवान्निति रूपम् अन्तोदात्त मिति स्थिति । एतादृशमघवन्शब्दस्तु लोकवेदसाधारण । तस्य छन्दोमात्रविषयत्वे प्रमाणा भावात् । किञ्च “वनो र च' इति सूत्रे भाष्यम् । मघवन्शव्द अव्युत्पन्नप्रातिपदिकमिति । अयमपि मघवन्शब्द फिट्स्वरेणान्तोदात्त लोकवदसाधारण एव । छन्दोमात्रविषयत्वे प्रमा णाभावादिति भाव । शब्दरत्ने तु “न शिष्य छान्दस हि तत्' इत्युदाहृतभाष्यवार्तिकयेास्सामा न्यप्रवृत्तयो मध्द्योदात्तमात्रविषयसङ्कोचे प्रमाणन्न किञ्चिदस्ति । कविप्रयेमेगाणान्तु “त तस्थिवास नगरोपकण्ठे' इत्यादिविषये बहुश प्रमाददर्शनात् तेषामपि नार्षवचनसङ्कोचकता । अतो मघ वन्शब्दस्य सर्वस्यापि लोके असाधुत्वमेवेति प्रपञ्चितम् । सुटि राजवदिति ॥ तृत्वाभावपक्षे नान्तत्वाद्दीर्घ इति भाव । शसादावचि मघवन् अस् इत्यादिस्थिते “ अल्लोपोऽन ' इति प्राप्ते । श्वयुवमघोनामतद्धिते ॥ श्वा च, युवा च, मघवा च इति द्वन्द्व । वसोस्सम्प्रसारणम्' इत्यत सम्प्रसारणमित्यनुवर्तते । “भस्य' इत्यधिकृतम् । “ अल्लोपोऽन ? इत्यत अन इत्यपकृष्यते । तच्च श्वयुवमघोनाम् प्रत्येक विशेषण, तदन्तविधि । फलित माह । अन्नन्तानामित्यादि ॥ “इग्यणस्सम्प्रसारणम्' इति वकारस्य सम्प्रसारण मुकार । मघ उ अन् इति स्थिते पूर्वरूपमुक्त स्मारयति । सम्प्रसारणाच्चेति ॥ मघ उ न् इति स्थिते गुण स्मारयति । आद्गुणः इति ॥ अन्नन्तानां किमिति ॥ श्वयुव मघोनामन्नन्तत्वाव्यभिचारात् किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतया अन्नन्तत्वसत्वादिति प्रश्न । मघवतः इति ॥ त्रादेशपक्षे मघवन्शूब्दे सम्प्रसारणनिवृत्त्यर्थम् अन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तमस्येव । तथापि विशेषणसामर्थ्यात् श्रूयमाणनकारान्तस्यैव सम्प्रसारणमित्याहु स्त्रियां मघवतीति ॥ मघवत स्त्री मघवती 'पुयोगादाख्यायाम्' इति डीष् । अत्राप्य न्नन्तत्वविशेषणात् न सम्प्रसारणमिति भाव । अत्र 'उगिदचाम्’ इति नुम् तु न । डीषा व्यवधानेन तान्तस्य उगित सर्वनामस्थानपरकत्वाभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते । विभक्तौ लिङ्गविशिष्टाग्रहणमित्युक्त्तेरिति भाव । माघवनमिति ॥ 'सास्य देवता' इति मघवन्शब्दातू् अणि आदिवृद्धि । अत्राणस्तद्धितत्वात् तस्मिन् परे न मम्प्र