पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२४८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३६४ । अवणस्त्रसावनअः । (६-४-१२७ )

नञा रहितस्यार्वन्नित्यस्याङ्गस्य * तृ' इत्यन्तादेश स्यात्, न तु सौ । उगित्वान्नुम् । अर्वन्तौ, अर्वन्त , अर्वन्तम् । अर्वन्तौ, अर्वत । अर्वता अर्वद्भयाम् इत्यादि । “ अनञ्ज.' किम् । * अनर्वा' * यज्व' वत् ।

३६५ । पथिमथ्यृभुक्षामात् । (७-१-८५)

एषामाकारोऽन्तादेश. स्यात्सौ परे । “ आ आत्' इति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिक


हे अर्वन्निति ॥ अर्वणस्त्रसावनञ्जः ॥ तृ असौ इति छेद । न विद्यते नञ् यस्येति बहुव्रीहि । अङ्गस्य इत्यधिकृतम् अर्वणा विशेष्यते । तदाह । नञा रहितस्येत्यादिना ॥ ऋकार इत् । “ अलोऽन्त्यस्य ' इति नस्य त । उगित्वान्नुमिति ॥ 'उगिदचाम्' इत्यनेनेति शेष । अर्वन्ताविति ॥ नुमेो नस्य “नश्वापदान्तस्य ’ इति अनुस्वार , परसवर्ण इति भाव । शसादावचि असर्वनामस्थानत्वान्नुन्नेति मत्वा आह । अर्वत. इति ॥ अर्वद्भयामिति ॥ स्वादिषु' इति पदत्वाज्जश्त्वामात भाव । इत्यादीति ॥ अर्वद्रि, अर्वते, अर्वभ्य । अर्वत अर्वतो , अर्वताम् । अर्वति, अर्वत्सु । अनञ. किमिति ॥ अनञ इत्यस्य किं प्रयोजनमि त्यर्थ । अनर्वा यज्ववदिति ॥ अनर्वन्शब्दो यज्ववादित्यर्थ । शसादावचि “न सयोगाद्व मन्तात्' इत्यल्लोपो नेति भाव । पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ता । तेषु विशे षमाह । पथिमथ्यृभुक्षामात् ॥ पन्थाश्च, मन्थाश्च, ऋभुक्षाश्च, पथिमथ्यृभुक्षाण तेषामिति विग्रहः । “ सावनडुह ' इत्यतस्सावित्यनुवर्तते । आदिति तपरकरणम् । अकार एव विधेय । तदाह । एषामित्यादिना ॥ “अलोऽन्त्यस्य ' इति नकारस्य आकार । ननु नकारस्य आ न्तरतम्यात् अनुनासिक एव आकार प्राप्तोति । नच निरनुनासिकस्यैवाकारस्योच्चारणात् शुद्ध एव आकार इति वाच्यम् । गुणानामभेदकत्वात् । भेदकत्वेऽपि तपरकरणेन अनुनासिकस्या प्याकारस्य ग्रहणात् । व्यक्तिपक्षे तपरसूत्रस्य अण्सु दीर्घप्लुतेषु विध्द्यर्थत्वात् । नच ग्रहणक सूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकारस्ये हानप्त्वात् विधीयमानन्वाञ्च न तत्काल इति वाच्यम् । तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहण स्य चानुवृत्तौ मानाभावादित्यत आह । आ आदिति ॥ सवर्णदीर्घेणाकारान्तर प्रश्लिष्यते। तत श्वाननुनासिकरूप आकारो भवतीति लभ्यते । नच सर्वदेशत्व शङ्कयम् । नह्यत्र वर्णद्वय विधी यते । विशेषणविशेष्यभावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भाव । भाष्ये तु अनुनासिकविधेस्सम्मतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव ‘उञ, ऊँ' इत्यत्रेव उच्चा र्यविधानसम्भवात्तदनुच्चारणाच्छुद्ध एव आकार इह विवेय इत्युक्तम् । तपरकरणन्तु उच्चारणा र्थमेव । वस्तुतस्तु * भाव्यमानेन सवर्णाना ग्रहणन्न' इति परिभाषयैव अनुनासिकाकारनिरास सम्भवादाकारप्रश्लेषक्लेशो व्यर्थ । “भाव्यमानोऽण् सवर्णान्न गृह्णाति' इति पाठतु प्रामादिक ।