पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


नकारान्तप्रकरणम्]
२४१
बालमनोरमा ।

न चाल्लोपस्य स्थानिवत्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीन्न । प्रतिदीन्ना इत्यादि । यज्वा, यज्वानौ ,

३५५ । न संयोगाद्वमन्तात् । (६-४-१३७)

वकारमकारान्तसंयोगात्परस्यानोऽकारस्य लोपो न स्यात् । यज्वन- । यज्वना, यज्वभ्याम् इत्यादि । ब्रह्मण ’ । ब्रह्मणा, ब्रह्मभ्याम् इत्यादि ।

३५६ । इन्हन्पूषार्यम्णां शौ । (६-४-१२)

एषां शावेवोपधाया दीर्घ., नान्यत्र । इति निषेधे प्राप्ते ।


तदाह । रेफवान्तस्येत्यादिना ॥ रेफान्तस्य गीर्यतीत्युदाहरणम् । अपदान्तत्वात् “र्वोरु पधाया ' इत्यप्राप्ते विधि । प्रकृते च प्रतिदिव् न् अस् इति स्थिते नकारे हलेि परे वान्तस्य दिव्धातोरुपधाया इकारस्य दीर्घ इति भाव । ननु 'अच परस्मिन्' इत्यल्लोपस्य स्थानिवत्त्वा दकारेण व्यवधानात् हल्परत्वाभावात् कथमिह दीर्घ इत्याशङ्कय परिहरति । न चाल्लोपस्य स्थानिवत्त्वमिति। कुत इत्यत आह । दीर्घविधौ तन्निषेधादिति ॥ *न पदान्त इति सूत्रेण दीर्घविधौ स्थानिवत्त्वनिषेधादित्यर्थ । नन्वेवमपि भसज्ञापेक्षस्यालोपस्य बहिर्भूत प्रत्ययापेक्षत्वेन बहिरङ्गतया तस्यान्तरङ्गे दीर्घे कर्तव्ये आसिद्धत्वादकारेण व्यबधानातू हल्परत्वा भावात् कथमिह दीर्घ इत्यत आह । बहिरङ्गेति । “यथोद्देशपक्षे षाष्ठी परिभाषा प्रति श्चुत्वस्यासिद्धतया अन्तरङ्गपरिभाषाया अप्रवृत्ते ” इति राजन्शब्दोक्तन्यायेन दीर्घस्यासिद्धतया तद्विषये “असिद्ध बहिरङ्गम्' इति परिभाषा न प्रवर्तत इति भाव । प्रतिदीव्नः इति ॥

  • न भकुर्छुराम्' इति निषेधस्तु वान्तस्याभत्वान्नेति भाव । इत्यादीति ॥ प्रतिदीन्ने । प्रति

दीन्न , प्रतिदीन्नेो । म्यामादौ हलि राजवदित्यर्थ । यज्वन्शब्द सुटि राजवदित्याह । यज्वे ति ॥ शसेि अल्लोपे प्राप्ते । न संयोगाद्वमन्तात् ॥ वश्व म्च वमौ अन्तौ यस्येति वि ग्रह । “अल्लोपोऽन ' इत्यनुवर्तते । तदाह । वकारेत्यादिना ॥ अन्तग्रहण स्पष्टार्थम् । वम योस्सयोगविशेषणत्वादेव तदन्तलाभात् । इत्यादीति ॥ यज्वने । यज्वन, यज्वृनो. । भ्या मादौ हलि राजवदित्यर्थ । मान्तसयोगस्य उदाहरणमाह । ब्रह्मणः इति ॥ शसादावचि नाल्लोप । शेष राजवदिति भाव । “वेदस्तत्त्व तपो ब्रह्म ब्रह्मा विप्र. प्रजापति ' इत्यमर । वृत्रो नाम असुर, त हतवानित्यर्थे 'ब्रह्मभ्रूणवृत्रेषु क्विप्' इति क्विप् । कपावितौ । अपृक्तलोपः । उप पदसमास । ‘सुपो धातु' इत्यमो लुक्, वृत्रहन्शब्द, तस्मात् सुबुत्पत्ति । सौ विशेषमाह । इन्हन् ॥ 'ढ्रलोपे' इत्यतो दीर्घ इत्यनुवर्तते । “नोपधायाः' इत्यत उपधाया इति । तदाह । एषामिति ॥ इन्, हन्, पूषन्, अर्यमन्, इत्यन्तानामित्यर्थः । अङ्गविशेषणत्वेन तदन्त विधिः 'सर्वनामस्थाने च' इति सिद्धे नियमार्थमित्याह । शावेवेति ॥ नान्यत्रेति ॥ शेरन्य 84