पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

राजभ्याम्, राजभ्य । राज्ञ , राज्ञोः, राज्ञाम् । राज्ञि, राजनि । प्रतिदी व्यतीति प्रतिदिवा, प्रतिदिवानौ, प्रतिदिवान । अस्य भविषयेऽल्लोपे कृते ।

३५४ । हलि च । (८-२-७७)

रेफवान्तस्य धातोरुपधाया इको दीर्घ स्याद्धलि ।


हि किं “पूर्वत्रासिद्धम्' इत्यनेन आपाद्यते, उत 'नलोपस्सुग्स्वर' इत्यनेनैव । न तावदाद्य । नलोपविधष्षत्वविद्यपेक्षया पूर्वत्वेन तस्य षत्वे कर्तव्ये असिद्धत्वासम्भवात् । न द्वितीय नलोपस्सुस्वर' इत्यनेन हि राजभ्यामित्यादौ नलोपस्यासिद्धत्वमपूर्वन्न विधीयते । किन्तु

  • पूर्वत्रासिद्धम्' इत्यनेन प्राप्तमेव नियमार्थ पुनर्विधीयते । राजाश्व इत्यादौ सुप्स्वरसज्ञा

तुग्विधिभिन्नसवर्णदीर्घादिविधिसिद्धये दण्डिष्वित्यत्र तु नलोपस्यासिद्धत्व “पूर्वत्रासिद्धम्' इत्य नेन प्राप्त न भवतीति तस्य 'नलोपस्सुस्वर' इति सूत्रविषयत्व न सम्भवति । अन्यथा सुव्विधावित्यनेन दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपासिद्धत्वमपूर्व विधीयेत । राजभ्यामि त्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थ विधीयते इति विधिवैरूप्यमापद्येत । तस्माद्दण्डि ष्वित्यादौ षत्वे कर्तव्ये नलोपस्यासिद्धत्वाभावात् नलोपस्य सत्वादिण परत्वानपायात् षत्व निर्बाधमिति शब्देन्दुशेखरे प्रपञ्चितम् । प्रकृतमनुसराम । स्वरविधौ यथा । पञ्चार्मम् । अत्र नलोपस्यासिद्धत्वात् अकारान्तत्वाभावात् ‘अर्मे चावर्ण ह्यच्त्रयच्' इति पूर्वपदाद्युदात्तत्वन्न भवति । सज्ञाविधौ यथा । दण्डिदत्तौ, दतदण्डिनौ । अत्र “द्वन्द्वे घि' इति पूर्वनिपातनियमो न भवति । घिसज्ञाविधौ नलोपस्यासिद्धत्वेन इदन्तत्वविरहात् । कृतितुग्विधौ यथा । वृत्र हभ्याम्, वृत्रहभि । अत्र ‘ब्रह्मभ्रूणवृत्रेषु क्विप्' इति विहित क्विपमाश्रित्य ‘ह्रस्वस्य पिति कृति तुक्’ इति न तुक् । नलोपस्यासिद्धत्वेन ह्रस्वस्य नकारव्यवहितत्वात् । कृतीति विशेषणात् “छे च' इति तुग्विधौ नलोपस्य नासिद्धत्वम्। ततश्च वृत्रहच्छत्रम् । इह स्यादेव ‘छे च' इति तुक् । भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्वेऽपि सन्निपातपरिभाषया ‘हूस्वस्य पिति’ इति तुक् न भविष्यतीति तुग्विधिग्रहण प्रत्याख्यातम् । “ स्वादिषु' इति पदत्वद्वारा भ्याम्सन्निपातनि मित्तको नलोपस्तद्विघातक न प्रवर्तयतीत्याशय । ननु वृत्रहधनामित्यत्र तुग्व्यावृत्त्यर्थ तुग्विधि ग्रहणमावश्यकम् । तत्र नलोपस्यान्तवर्तिनी विभक्तिमाश्रित्य प्रवृत्त पदत्वमादाय प्रवृत्तस्य नलोपस्य भ्याम्सन्निपातनिमित्तकत्वाभावादिति चेन्न । तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येन तादृशसन्निपातानिमित्तकनलोपविषयाणा वृत्रहधनमित्यादीना अनभिधानकल्पनातू इत्यास्तान्ता वत् । राशि, राजनीति ॥ 'विभाषा डिश्यो ' इत्यल्लोपविकल्प इति भाव । प्रतिदि वेति ॥ 'दिवु क्रीडादौ' तस्मात् “कनिन्युवृषितक्षि' इत्युणादिसत्रेण कनिन्प्रत्यय । कना वितौ । इकार उच्चारणार्थ । प्रतिदिवन्शब्दात् सुबुत्पत्ति । “सर्वनामस्थाने च' इति दीर्घ । हल्डयादिना सुलोपे प्रतिदिवा इति रूपम् । सुटि राजवत् । अस्येति ॥ प्रतिदिवन्शब्दस्य शसादावचि अल्लोपोऽन इत्यल्लोपे सतीत्यर्थः । हलि च ॥ “वरुपधाया दीर्घ इक' इत्यनु वर्तते । 'सिपि धातो ' इत्यतो धातोरिति च । 'तच इत्यनेन विशेष्यते । तदन्तविधि. ।