पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२४२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३५७ । सौ च । (६-४-१३)

इन्नादीनामुपधाया दीर्घः स्यादसम्बुद्वौ सौ परे । वृत्रहा । हे वृत्रहन् ।

एकाजुत्तरपदे–' ( स ३०७) इति णत्वम् । वृत्रहणौ, वृत्रहण । वृत्रहणम् ,

वृत्रहणौ

३५८ । हो हन्तेर्जिणन्नेषु । (७-३-५४)

ञिति णिति च प्रत्यये, नकारे च, परे हन्तेर्हकारस्य कुत्वं स्यात् ।

३५९ । हन्तेः उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्व स्यात् । प्रहण्यात् । —अत्पूर्वस्य । (८-४-२२)

हन्तेरत्पूर्वस्यैव नस्य णत्वम्, नान्यस्य । प्रध्नन्ति । योगविभागसाम


त्रेत्यर्थ । इति निषेधे प्राप्ते इति ॥ वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात् सौ परत 'सर्वनामस्थाने' इति दीर्घे अप्राप्ते सतीत्यर्थ । सौ च ॥ पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्त तञ्च । तदाह। इन्नादीनामिति ॥ असम्बुद्धाविति ॥“सर्वनामस्थाने च' इत्यत तदनुवृत्तेरिति भाव । ‘इन्हन्पूष' इत्यस्यायमपवाद । हे वृत्रहन्निति ॥ असम्बुद्धावित्यनुवृत्तेर्न दीर्घ । भिन्नपदत्वादाह । एकाजिति । वृत्रहणावित्यादि । शावेवेति नियमान्न दीर्घ । शसादावचि अल्लोपे कृते । हो हन्तेः ॥ ह इति स्थानषष्ठी, हन्तेरित्यवयवषष्ठी । ञच ण् च ञ्णौ, इतौ, ययोस्तौ, ञ्णितौ । इच्छब्द प्रत्येक सम्बध्द्यते । ञ्णितौच नश्च ञ्णिन्ना तेष्विति विग्रह । अङ्गाधिकारात् प्रत्ययत्व ञ्णितोर्लभ्यते । “चजो कु घिण्ण्यतो ' इत्यत कुग्रहणमनुवर्तते। तदाह । ञितीत्यादिना । हन्तेरिति श्तिपा निर्देश । हन्धातोरित्यर्थ । प्रकृते हकारस्य नकार परत्वात् कुत्वम् । तत्र घोषवतो नादवतो महाप्राणस्य सवृतकण्ठस्य हस्य तादृशवर्गचतुर्थो घकार । वृत्रघ्न , वृत्रघ्ना, इत्यादि सिद्धम् । नन्विह कथन्न णत्वम् । भिन्नपदस्थत्वेऽपि “एका जुत्तरपदे ण ' इति णत्वस्य दुर्वारत्वात् । कृतेऽप्यल्लोपे तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकाच्त्वात् स्थानिवत्वाभावेऽपि “प्रातिपदिकान्तनुम्विभक्तिषु च' इत्यस्य ‘कुमति च' इत्यस्य वा दुर्वारत्नादिति प्राप्ते तद्वारणार्थे 'हन्तेरत्पूर्वस्य ' इति सूत्र विभज्य व्याचष्ट । हन्तेः रषाम्या नो ण ' इत्यनुवर्तते । “उपसर्गादसमासेऽपि' इत्यत उपसर्गादित्यनुवंर्तते । तात्स्थ्या त्ताच्छब्द्यम् । उपसर्गस्यादिति लभ्यते । तच्च रषयो प्रत्येकमन्वेति । तदाह । उप सर्गस्थान्निमित्तादित्यादिना ॥ निमित्तशब्देन रेफ षकारश्च विवक्षित । प्रहण्या दिति । अत्र भिन्नपदस्थत्वात् अप्राप्ते णत्वे वचनम् । प्रकृतोपयुत्तमाह । -अत्पूर्वस्य हन्तेरित्यनुवर्तते । “रषाभ्यान्नेो ण ' इति च । उपसर्गादिति तु निवृत्तम् । हन्ते रत्पूर्वस्य नस्य ण स्यादिति लभ्यते । सिद्धे सत्यारम्भो नियमार्थ । तदाह । हन्ते