पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२०४
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ अजन्नस्त्रीलिङ्गे ऊदन्तप्रकरणम् ॥

वधू ' 'गौरीवत्' । 'भ्रू' श्रीवत् । हे सुभ्रू । कथं तर्हि हा पित क्वासि हे सुभ्रु' इति भट्टि । प्रमाद् एवायमिति बहवः । “खलपू पुंवत् । पुनर्भू । दृन्कर –’ (वा ४११८) इति यणा उवङो बाधनात् नेयङुवङ्-' (सू ३०३) इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्व ।

३०७ । एकाजुत्तरपदे णः । (८-४-१२)

एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिका न्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामथ्यर्यान्नित्य त्वे सिद्धे


अथ ऊदन्ता निरूप्यन्ते । वधूगौरीवदिति ॥ “वहो धश्च' इत्यूप्रत्यय. । हस्य धश्च । धात्ववयवोवर्णाभावात् नोवड्, ऊकारस्य यण् वकार इत्यादिविशेषस्तु सुगम इति भाव । भ्रु. श्रीवदिति ॥ 'भ्रमेश्च डू ' इति ड्प्रत्ययान्ताऽयम् । ‘अचि श्नुधातुभ्रुवाम् इत्युवड् इत्यादिविशेषस्तु सुगम इति भाव । सु शोभना भ्रूर्यस्यास्सा सुभ्रू । अस्त्रीप्रत्यया न्तत्वात् “गोस्त्रियो ' इति हृस्वो न भवति । 'नेयडुवड्स्यानावस्त्री' इति भ्रूशब्दस्य तदन्तस्य च निषेधात् नदीत्वन्न। ततश्च ‘अम्बार्थ इत्यादि नदीकार्य नेत्यभिप्रेत्य आह । हे सु भ्रूरिति । कथं तर्हीति ॥ यदि सुभ्रूशब्दे नदीकार्य न स्यात् तर्हि तदा “हापित क्वासि हे सुभ्रू” इति कथ भट्टिराहेत्यर्थ । रावणेन सीतापहारोत्तर रामविलापोऽयम् । हे सुभ्रू त्वया अह हापितोऽस्मि विधिनेत्यर्थ । हापित इत्यस्य त्याजित इत्यर्थ । प्रमादः इति ॥ ‘अम्बार्थ’ इति हूस्वस्य करणादिति भाव । बहवः इति ॥ कतिपये सामान्ये नपुसकत्वमाश्रित्य कथञ्चित् समादधु । खलपूः पुवदिति ॥ खलपवनस्य उत्सर्गत पुधर्मतया पदान्तर विना स्त्रिया वर्तमानत्वाभावेन नित्यस्त्रीत्वाभावात् नदीत्व नेति भाव । पुनर्भूरिति ॥ “पुनर्भूदिधिषूरूढा इत्यमर । तस्य 'नेयडुवड्' इति निषेधमाशङ्कय आह । दृन्करेतीति । अम्शसो पूर्वरूप पूर्वसवर्णदीर्घश्च बाधित्वा 'दृन्कर' इति यणिति मत्वा आह । पुनर्भ्वम्, पुनभ्वर्वाविति ॥ पुनर्भवै । पुनर्भ्वा । नद्यन्तत्वात् नुटि दीर्घ पुनर्भू नामिति स्थिते रेफान्नकारस्य भिन्नपदस्थत्वात् अट्कुप्वाड्' इत्यप्राप्ते । एकाजुत्तरपदे णः ॥ समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एक अच् यस्मिन् तत् एकाच्, तत् उत्तरपद यस्य स एकाजुत्तरपद् । तस्मिन् समासे इति बहुव्रीहिगर्भो बहुव्रीहि । “रषाम्या नो ण ' इत्यनुवर्तते । “पूर्वपदात् सज्ञायाम्' इत्यत पूर्वपदादित्यनुवर्तते । पूर्व पद यस्य तत् पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्थाभ्यामिति लभ्यते । 'प्रातिपदिकान्तनुम्विभक्तिषु च' इत्यनुवर्तते । विद्यमानस्येति शेष । तदाह । एकाजुत्तरपदमित्यादिना ॥ नन्विह णकारग्रहण व्यर्थम्। 'रषाभ्या नो