पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


उद्न्तप्रकरणम्]
२०३
बालमनोरमा

ग्रामणीपुंवत् । ग्रामनयनस्योत्सर्गत. पुंधर्मतया पदान्तर विनापि स्त्रिया- मप्रवृत्तेः । एव खलपवनादेरपि पुधर्मत्वमौत्सर्गिक बोध्यम् ।

इति ईदन्ताः ।

॥ अथ अजन्नस्त्रीलिङ्गे उदन्तप्रकरणम् ।।

धेनु.' 'मति' वत् ।

३०५ । स्त्रियां च । (७-१-९६)

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ।

३०६ । ऋन्नेभ्यो ङीप् । (४-१-५)

ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । क्रोष्ट्री। क्रोष्ट्रयौ । क्रोष्ट्रयः ।

इत्युदन्ताः ।


निषेधात् वृत्तावपि न तदतिदेश इत्यास्ता तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति ॥ मतद्वयेऽपि नित्यस्त्रीलिंङ्गत्वादिति भाव । ग्रामणीः पुंवदिति ॥ स्त्रियामिति शेष । ननु ग्राम नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत् पदान्तर विनापि स्त्रिया वर्तमान त्वात् नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात् पुवदिति कथमित्यत आह । ग्रामनयनस्येति ॥ ग्रामनयनस्य लोके उत्सर्गत सामान्यत पुधर्मतया पुरुषकर्तव्यतया ब्राह्मणीत्यादपदान्तरस मभिव्याहार विना स्त्रीलिङ्गाप्रतीते वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाभावान्नदीत्व नेत्यर्थ । एवमिति ॥ खलपवनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्व औत्सर्गिक सामान्यतस्सिद्धम् । अत खलपू कटप्रू इत्यादिशब्दानामपि स्त्रिया वृत्तिकारादिमतेऽपि नित्यस्त्रीत्व न । अत पुवदेव रूपमित्यर्थ

इति ईदन्ताः ।

अथ उदन्ता निरूप्यन्ते । धेनुर्मतिवदिति ॥ उकारस्य ओकारो गुण अवादेश इत्यादिविशेषस्तु सुगम इति भाव । अथ क्रोष्टुशब्दस्य स्त्रिया विशेषमाह स्रियाञ्च ॥ “तृज्वत्क्रोष्टु ' इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह । स्त्रीवाची त्यादिना ॥ तथाच स्त्रियामुदन्त क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम् । ऋन्नेभ्यो ङीप् ॥ ऋतश्च नावेति द्वन्द्व । स्त्रियामित्यधिकृतम् । “डयाप्प्रातिपदि कात्' इत्यत प्रातिपदिकग्रहणमनुवृत्तम् ऋन्नकारैर्विशेष्यते । तदन्तविधि । तदाह । ऋद न्तेभ्य इत्यादिना ॥ डपावितौ । क्रोष्टृ ई इति स्थिते यणि क्रोष्ट्रीशब्दात् सुबुत्पत्ति । गौरी वद्रूपाणीत्याह । क्रोष्ट्री इत्यादि ।

इत्युदन्ताः ।