पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२०२
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । 'लिङ्गान्तरानभिधायकत्वं तत्’ इति कैयटमते तु पुंवदूपम् । प्रकृष्टा धी' इति विग्रहे तु “लक्ष्मी' वत् । अमि शसि च प्रध्यम्' प्रध्यः इति विशेष' । सुष्ठु धीर्यस्या , सुटु ध्यायति वेति विग्रहे तु वृत्तिकारमते सुधीःश्री' वत् । मतान्तरे तु पुवत् । “सुष्टु धी ' इति विग्रहे तु “श्री' वदेव ।

इति नदीत्वनिषेधाभावात् 'यू स्रयाख्यौ' इति नित्यनदीत्वे सति “अम्बार्थ' इत्यादिनदी कार्यप्रवृत्तेरिति भाव । तत्र अमि शसि च पूर्वरूप पूर्वसवर्णदीर्घञ्च बाधित्वा यणेवेति विशेष । ननु प्रध्यायते क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वातू नित्यस्त्रीलिङ्गत्वाभावात् नदीत्वाभावात् कथ नदीकार्याणीत्यत आह । पदान्तरं विनापीति । पदान्तरसमभिव्याहाराभावे ऽपि यश्शब्द स्त्रीलिङ्गत्वबोधक नित्यस्त्रीलिङ्ग इति विवक्षित । अत एव ब्राह्मण्या आधीशब्दस्य आध्यै इति रूपमास्थित भाष्ये । स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग इत्यभ्युपगमे तु तदसङ्गति स्पष्टैव । प्रधी शब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अत पदान्तर विनापि स्त्रिया वर्तमानत्वमेव नित्यस्त्री त्वम् । इद तु प्रधीशब्दस्य सम्भवत्येव । प्रकर्षेण ध्यातृत्व निमित्तीकृत्य स्त्रिया वृत्तिसम्भ वात् । परन्तु प्रधीरित्युक्त पुस स्त्रियाश्च प्रतीतिप्रसक्तौ अन्यतरव्यवच्छेदाश्च, ब्राह्मण , ब्राह्मणी इत्यादिपदान्तरसमभिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराभावे स्त्रिया वृत्ति रपैति । अत प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वात् नदीकार्यन्निर्बाधमिति भाव । लिङ्गान्तरेति । स्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्वम्” इति कैयटमतम् । “स्त्रीविषयावेव यौ यू तयोरेव नदीसज्ञा” इति 'यू स्रयाख्यौ' इत्यत्र भाष्यादिति तदाशय । पुंवद्रूपमिति ॥ उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यत्रीत्वाभावात् पुसीव स्त्रियामपि अनदीत्वादिति भाव । प्रकृष्टेति ॥ प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्ग त्वात् लक्ष्मीवद्रूपमित्यर्थ । अमि शसेि चेति ॥ प्रध्द्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दात् अमि शसि च पूर्वरूप पूर्वसवर्णदीर्घञ्च बाधित्वा 'एरनेकाच ' इति यण् इत्येतावान् विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थ । कैयटमते ब्राह्मण्या आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्यभिप्रायेण नेय । अत एव भाष्यात् 'नध्यृतश्च' इति कप् नेत्याहु । सुष्ठु धीर्यस्या इति सुष्ठु धीरिति उभयविधविग्रहेऽपि पदान्तर विना स्त्रिया वर्तमानत्व नित्यस्त्रीत्वमिति वृत्तिका रादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन “नेयड़वड़स्थानावस्री ' इति नदीत्वनिषेधात् “ङिति हूस्वश्च' इति “वामि' इति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि । ‘न भूसुधियो ' इति यण्निषेधे इयङ एव प्रवृत्तेरिति भाव । मतान्तरे तु पुंवदिति ॥ लिङ्गान्तरानभिधायकत्व नित्यस्त्रीत्व मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाभावात् पुवदेव रूपमित्यर्थ । ननु सुधीशब्दे बहुव्रीहि प्रवृत्ते प्राक् धीशब्दस्य नित्यत्रीलिङ्गत्वात् 'प्रथमलिङ्गग्रहण च' इति नदीत्व दुर्बरामिति चेत् सत्यम् । यस्य वृत्ते प्राक् नदीत्व दृष्ट तस्य उपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्ते प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयडयोग्यतया 'नेयडुवडूस्थानौ' इति नदीत्व-