पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


ऋदन्तप्रकरणम्]
२०५
बालमनोरमा

पुनर्णग्रहणं स्पष्टार्थम् । यण बाधित्वा परत्वान्नुट् । पूनभूणाम् । वर्षाभू । भेकजातौ नित्यस्त्रीत्वाभावात् हे वर्षाभू. कैयटमते । मतान्तरे तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दूरे पुमान्' इति यादव' । “वर्षाभ्वश्च' (सू २८२) । वर्षाभ्वौ । वर्षाभ्व' । “स्वयम्भू ' पुंवत् ।

इत्यूदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे ऋदन्तप्रकरणम् ।

३०८ । न षट्स्वस्रादिभ्यः । (४-१-१०)

षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ।


ण' इत्यत एव तदनुवृत्तिसिद्धे । नच “प्रातिपदिकान्तनुम्विभक्तिषु च' इति विकल्पनिवृत्त्यर्थ पुनर्णग्रहणामिति वाच्यम्। आरम्भसामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह । आरम्भेति ॥ यण मिति ॥ ‘दृन्कर'इति यणमित्यर्थ । पुनर्भूणामिति । रेफस्य 'हशि च' इत्युत्त्वन्तु न रोरेव तद्विधानात् । डेराम्, पुनम्वाम् । वर्षाभूशब्दे विशेषमाह । भेकेति ॥ “बह्वादिभ्यश्च' इति डीषो वैकल्पिकत्वात् डीषभावे वर्षाभूशब्द स च भेकजातौ द्विलिङ्ग भेक्या पुनर्न वाया स्त्री वर्षाभूर्दर्दुरे पुमान्” इति यादव । दर्दूरो भेक । एवञ्च ‘लिङ्गान्तरानाभिधायकत्वम्’ इति कैयटमते नित्यस्त्रीलिङ्गत्वाभावात् नदीत्वाभावे सति * अम्बार्थ' इति हूस्वाभावे सति हे वर्षभू रिति रूपमित्यर्थ । मतान्तरे त्विति॥ ‘पदान्तर विनापि स्त्रिया वर्तमानत्वम्’ इति वृत्तिका रादीनाम्मते तु वर्षीभूशब्दस्य जातिशब्दतया पदान्तर विनापि स्त्रिया वर्तमानतया नित्यस्त्रा लिङ्गत्वान्नदीत्वे ‘अम्बार्थ’ इति हूस्वे सति हे वर्षाभु, इति रूपमित्यर्थ । ननु 'शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलि ?” इत्यमरकोशे वर्षाभूशब्दस्य भेकजातौ त्रीलिङ्गमात्रावगमात् कैय टमतेऽपि नित्यस्त्रीत्व कुतो न स्यादित्यत आह । भेक्यामिति ॥ यादवकोशानुसारात् अमरकोशे स्त्रीग्रहणमुपलक्षणमिति भाव । यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्व मस्तु। अजादौ “एरनेकाच ' इति यण “न भूसुधियो ' इति निषेधे प्राप्ते ‘वर्षाभ्वश्च' इति यण् । प्रतिप्रसव उक्त । त स्मारयति । वषर्षाभ्वश्चेति ॥ स्वयम्भूः पुंवदिति ॥ स्वयम्भूशब्दस्य चतुरानने रूढत्वात् तस्य यौगिकस्य पदान्तर विना स्त्रियामवृत्ते न वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेक्लिङ्गत्वात् न नित्यस्त्रीत्वमिति भाव ॥ इत्यूदन्ता ४४ अथ ऋदन्ता निरूप्यन्ते । “सावसेर्ऋन्’ इति सौ उपपदे अस्यधातो ऋन्प्रत्यये स्वसृशब्द । भगिनीवाची । ‘ऋत्रेभ्य' इति डीपि प्राप्ते । न षट् ॥ षट् इत्यनेन षट्सज्ञका गृह्यन्ते इत्याह। षट्संज्ञकेभ्यः इति ॥ डीप्टापाविति ॥ 'ऋत्रेभ्य ' इत्यतो ङीबिति