पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३२४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

४४४ । वा नपुंसकस्य । (७-१-७९)

अभ्यस्तात्परो य शता तदन्तस्य क्लीबस्य उनुम् वा स्यात्सर्वनामस्थाने । ददन्ति-द्दति । तुदत् ।

४४५१ ॥ आच्छीनद्योर्नुम् । (७-१-८०)

अवर्णान्तादङ्गात्परो य शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छी नद्यो परत । तुदन्ती-तुदती, तुदन्ति । भात्, भान्ती-भाती, भान्ति ।

४४६ । शप्शयनोर्नित्यम् । (७-१-८१)


शौ “नाभ्यस्ताच्छतु ' इति नित्य नुम्निषेधे प्राप्ते । वा नपुंसकस्य ॥ “नाभ्यस्ता च्छतु ' इति सूत्र नञ्वर्जमनुवर्तते । नपुसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । 'इदितो नुम् धातो ' इत्यतो नुमिति “उगिदचाम्’ इत्यत सर्वनामस्थाने इति च अनुवर्तते । तदाह । अभ्यस्तादित्यादिना ॥ ददन्तीति ॥ नुमि अनुस्वारपरसवर्णौ । तुददिति ॥ ‘तुद व्यथने अस्माच्छतृप्रत्यये ‘तुदादिभ्यश्श' इति श, शपोऽपवाद । “ अतो गुणे' इति शतुरकारेण पररूपे तुदच्छब्द, तस्मात् स्वमोर्लुक्, प्रत्ययलक्षणविरहात् असर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भाव । तुदच्छब्दादौड श्याम्, असर्वनामस्थानत्वान्नुमि अप्राप्ते । आच्छीनद्योर्नुम् ॥ वा नपुसकस्य’ इत्यत वेत्यनुवर्तते । आदिति पञ्चमी । अङ्गस्य इत्यधिकृत पञ्चम्या विप रिणम्यते, तच्च आदित्यनेन विशेष्यते, तदन्तविधि , परस्य इत्यध्द्याहूियते, शतुरित्यनन्तर मवयवस्येत्यच्द्याहूियते, तेन च अङ्गस्येति षष्ठयन्त विशेष्यते, तदन्तविधि , अङ्गस्येत्यस्य आवृत्ति बोध्द्या । तदाह । अवर्णान्तादित्यादिना ॥ “इदितो नुम्' इत्यत अनुवृत्यैव सिद्धे नुम्ग्रहण स्पष्टार्थम् । तुदन्ती-तुदती इति ॥ औडश्या, जुमि, तदभावे च, रूपम् । शविकरणे कृते शतुरकारेण पररूपे एकादश सात तुद इत्यवर्णान्तमङ्गम्, तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । ततश्च तुदत् इत्यन्यस्तकार शतुरवयव तुद इत्यवर्णान्तादङ्गात् परश्चेति नुमिति भाव । अवर्णन्तादङ्गात् परो यश्शतृप्रत्यय इत्याश्रयणे तु अत्र नुम् न स्यात् । शविकरणाकारस्य शतुरकारस्य च एकादशे कृते तस्य पूर्वान्तत्वे शतुरवर्णा न्तादङ्गात् परत्वाभावात्, परादित्वे अवर्णान्ताङ्गाभावात्, उभयत आश्रयेण च अन्तादिवत्त्व निषेधादित्यलम्। तुदन्तीति ॥ जश्शसोशि, सर्वनामस्थानत्वान्नुमिति भाव । भादिति ॥ भा दीप्तौ' लुग्विकरण लटश्शतरि कृते सवर्णदीर्घे भात् इति रूपम् । तस्मात् स्वमोर्लुक्, जश्त्वचत्र्वे इति भाव । भान्ती-भाती इति ॥ औौड शी' * आच्छीनद्यो ' इति नुम्विकल्प इति भाव । भान्तीति ॥ जश्शसो शि, सर्वनामस्थानत्वान्नुमिति भाव । पचदिति ॥ पचधातो लटश्शतरि, शप्, “अतो गुणे' इति पररूपम् । पचत् इत्यस्मात् स्वमोर्लुगिति भाव । औड श्याम् ‘आच्छीनद्यो' इति विकल्पे प्राप्ते । शप्श्यनोर्नित्यम् ॥ ‘आच्छीनद्योर्नुम्