पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


तकारान्तप्रकरणम्]
३२३
बालमनोरमा ।

तिर्यक्, तिरश्ची, तिर्यञ्चि । पूजायां तु, तिर्यङ्, तिर्यञ्ची, तिर्यञ्चि ।

              इति चान्ता ।

॥ अथ हलन्तनपुंसकलिङ्गे तकारान्तप्रकरणम् ॥

यकृत्, यकृती, यकृन्ति । * पद्दन्-' (सू २२८) इति वा यकन् । यकानि । यक्रा-यकृता । शकृत्, शकृती, शकृन्ति । शकानि । शक्रा-शकृता । ददत्, ददती ।


द्वाचत्वारिशत् (४२) । डि चतुर्दश (१४), ओस् चतुर्दश (१४), सुप् चतुरशीति (८४), आहत्य सप्तम्या द्वादशाधिक शतम् (११२) । ततश्च सङ्कलनया पञ्चशतानि (५००) च विशति (२०) च, सप्त (७) च रूपाणि । इति गवाक्छब्दप्रक्रिया । तिर्यगिति । तिर. अञ्चति इति विग्रहे 'ऋत्विक्' आदिना क्विन् । गतौ ‘अनिदिताम्' इति नलोप । तिरस् अच् इत्यस्मात् सुबुत्पत्ति, स्वमोर्लुक्, प्रत्ययलक्षणविरहात् असर्वनामस्थानत्वात् न नुम् । अभत्वात् “अच ' इत्यल्लोपो न, तिरसस्तिर्यादेश, यण्, 'क्विन्प्रत्ययस्य' इति कुत्वस्यासिद्धत्वात् चकारस्य ‘चो कु ' इति कुत्वम्, जश्त्वचर्त्वे इति भाव । तिरश्ची इति ॥ तिरस् अच् औ इति स्थिते औडश्या भत्वात् 'अच' इत्यल्लोप । ‘अलोपे' इत्युक्तेर्न तिर्यादेश । सस्य इचुत्वेन श इति भाव । तिर्यञ्चीति ॥ तिरस् अच् इत्यस्माज्जसि जश्श सो शि, सर्वनामस्थानत्वान्नुम्, अनुस्वारपरसवर्णौ, तिरसस्तिरि, यण्, अभत्वात्, “अच इत्यल्लोपो नेति भाव । पूजायान्तु तिर्यङिति ॥ स्वमोर्लुकि अभत्वात् अलुप्तनकारत्वा

  • अच ' इत्यल्लोपाभावात्तिर्यादेश, चकारस्य सयेोगान्तलोप, नस्य कुत्वेन डकार इति भाव ।

तिर्यञ्ची इति ॥ औड श्या रूपम् । अलुप्तनकारत्वांदच इत्यल्लोपाभावात्तिरि । तिर्यञ्चि इति ॥ जश्शसो शि । शेष पुवत् ॥

इति चान्ता

अथ तकारान्ता निरूप्यन्ते । यकृदिति ॥ मासपिण्डविशेषो यकृन्नाम याज्ञिकप्रसिद्ध । स्वमोर्लुक्, जश्त्वचत्वें, इति भाव । यकृती इति ॥ औडश्शी । यकृन्तीति ॥ जश्शसो शि, झलन्तत्वान्नुम्, अनुस्वारपरसवर्णाविति भाव । शसादौ विशेषमाह । पद्दन्निति वा यकन्निति । यकानीति ॥ शसश्शि , यकन्नादेश, सर्वनामस्थानत्वात् नान्तलक्षण उपधादीर्घ इति भाव । यक्रेति ॥ टाया यकन्नादेशे अल्लोप । यक्रे । यक्र । यक्रो । यक्रि इति भाव । यकनि । यकसु। यकन्नभावे यकृझ्यामित्यादि । शकृदिति ॥ शकृच्छब्द विष्ठावाची। यकृद्वत्। ददत्, ददती इति ॥ शतृप्रत्ययान्तोऽय ददच्छब्द पुलिङ्गनिरूपणे व्युत्पादित । तस्य स्वमोर्लुक्, औडश्शी, नुम् तु न, । असर्वनामस्थानत्वात् “नाभ्यस्ताच्छतु' इति निषेधाच्च