पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पकारान्तप्रकरणम्]
३२५
बालमनोरमा ।

शप्इयनोरात्परो य. शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्यो परतः । पचन्ती, पचन्ति । दीव्यत्, दीव्यन्ती, दीव्यन्ति ।

इति तान्ता

॥ अथ हलन्तनपुंसकलिङ्गे पकारान्तप्रकरणम् ।।

स्वप्-स्वब्, स्वपी । नित्यात्परादपि नुम प्राक् * अप्तृन् -' (सू २७७) इति दीर्घः, प्रतिपदोक्तत्वात् नुम्, स्वाम्पि । “निरवकाशत्व प्रति पदोक्तत्वम्' इति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि। स्वपा । “ अपो भि (सू ४४२) । स्वद्भयाम् । स्वद्भि. ।

इति पान्ता ।


इत्यनुवर्तते, “नाभ्यस्ताच्छतु ' इत्यत शतुरित्यनुवर्तते । अवयव इति चाध्द्याड्रियते तदाह । शप्श्यनोरादित्यादिना ॥ पचन्ती इति ॥ औड इया नुमि रूपम् । पच न्तीति ॥ जश्शसोश्शौ सर्वनामस्थानत्वान्नुमि रूपम् । दीव्यदिति ॥ दिवुधातो लटश्श तरि, श्यन्, “हलेि च' इति दीर्घ , दीव्यच्छब्दात् स्वमोर्लुगिति भाव । दीव्यन्ती इति ॥ औड श्यान्नुमि रूपम् । 'शप्श्यनो ' इति नित्य नुमिति भाव । दीव्यन्तीति ॥ जश्शसो सर्वनामस्थानत्वात् नुमिति भाव ॥ इति तान्ता । अथ पकारान्ता निरूप्यन्ते ॥ स्वबिति ॥ सु शोभना आपो यस्मिन् सरसीति बहुव्रीहि । ‘ऋक्पूरब्धू' इति समासान्तस्तु न भवति । ‘न पूजनात्' इति निषेधात् । ‘द्यन्तरुप सर्गेभ्योऽप ईत्’ इति न भवति । तत्र अप इति कृतसमासान्तग्रहणात् । स्वप्शब्दात् स्वमोर्लु गिति भाव । स्वपी इति ॥ औड श्या रूपम् । असर्वनामस्थानत्वात् न नुमिति भाव । जश्शसो शौ स्वप् इ इति स्थिते “अप्तृन्’ इति दीधैं, झलन्तलक्षणनुमि, अनुस्वारे, परसवर्णे खाम्पि इति वक्ष्यति । तत्र “ अप्तृन्’ इति दीर्घ बाधित्वा परत्वान्नित्यत्वाच्च नुमि कृते अका रस्य उपधात्वाभावात् कथ दीर्घ इत्यत आह । नित्यादित्यादि ॥ प्रतिपदोक्तत्वा दिति ॥ “अप्तृन्' इति दीर्घस्य अप्शब्दमुचार्य विहितत्वादित्यर्थ । ननु निरवकाशत्व प्रति पदोक्तत्वमिति “छदिरुपधिवलेर्ढञ्’ इति सूत्रे 'शेषाद्विभाषा' इति सूत्रे च भाष्ये स्थितम् । अप्तृन्’ इति दीर्घस्तु न निरवकाश, आप इत्यत्र सावकाशत्वात् । अतोऽत्र नित्यत्वात् परत्वाच्च पूर्व नुमागमे कथ दीर्घ इत्याशङ्कय इष्टापत्या परिहरति । निरवकाशत्वमित्यादि । स्वम्पीति ॥ दीर्घ बाधित्वा नुमि अनुस्वारपरसवर्णविति भाव. । केचित्तु 'अप्तृन्’ इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथम प्रवृत्तौ स्वाम्पि, इत्येव युक्तमित्याहु ॥ इति पान्ता ।